SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३ प्र. १० का.] ग्टह्यसूत्रम। ५ पुनः कारणात् सतीवेतदिकल्पोकावन्यास्वपि देवतासु रात्रिदेवतैवाटकाऽभ्युपगम्यते ?। सूत्रप्रमाण्यादित्याह । अष्टका रात्रिदेवता, इति खल्वाचार्येण सत्रितम्। तत्प्रामाण्यात् रात्रिदेवता अष्टका अभ्युपगम्यते । ननु, आग्नेयी पिया वा,-इत्येतदप्याचाय॑स्यैव सूत्रम् ? । सत्यमाचार्य्यस्यैव सूत्रमेतत्, किन्तु नैतत् देवता विधानार्थं परन्तु परमतोपन्यासार्थम् । कथं पुनरवगम्यते,परमतोपन्यामार्थमेतदिति । श्टण यथाऽवगम्यते । अष्टका रात्रिदेवता, दूति देवतामष्टकायाः सूचयित्वा, पुष्टिकर्म, इति च फलम्, आग्नेयोत्यादिकं सूत्रयन्ना चार्यः परमतमेतदिति दर्शयति। तदिदमर्थं पुष्टिकर्म, इति मध्ये सूत्रितम्। अन्यथा देवतोपदेशानांमध्ये फल वादोपन्यासेाऽनुचित एवस्यात्। यच्च,उत्तरेण सूत्रेण सहैक सूत्रता-शङ्का निरासाथ मध्य एव फलवादोन्यासः, इति वर्णितम्। तदपि नातीव समीचीनम् । कस्मात्?। तदाशङ्काया अकिञ्चित् करत्वात् । एकसूत्रतायामपि क्षतेरभावाच्च। तस्मात्, अष्टका रात्रिदेवता पुष्टि कर्म,इत्यनेन खमतमभिधाय श्रानेयोत्यादिना परमतमादर्शितमइत्यादरणोयम् । ग्टह्यान्तरेप्येकैकमतपरतयैवैतासां देवतानामुपन्यासो दृश्यते। तथाच ग्टह्यान्तरम् । “तांहैके वैश्वदेवी ब्रुवत आग्नेयीमेके * * प्राजापत्यामेके रात्रिदेवतामेके * * ऋतुदेवतामेके पिटदेवतामेके"-इति । तस्मादेता देवता नैकस्याभिमताः अपि त्वेकैका देवता एकैकस्याचार्यस्य । तत्र, “रात्रिदेवतामेके"इत्येतदस्मदाचार्य्यमतस्थापन्यामः, इति बोद्धव्यम् । अतएव, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy