________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३
आर्यश्रीमहादेवी व्याकरणम्
व्रतसन्नाह सुमेरुश्रिये तथागताय । नमो ब्रह्मश्रिये तथागताय । नमो महेश्वरश्रिये तथागताय । नमश्चन्द्रसूर्यश्रिये तथागताय । नमो गम्भीरधर्मप्रभाराजश्रिये तथागताय । नमो गगनप्रदीपा भिरामश्रिये तथागताय । नमः सूर्यप्रभाकेतुश्रिये तथागताय । नमो गन्धप्रदीपश्रिये तथागताय । नमः सागरगर्भसंभवश्रिये तथागताय। नमो निर्मितमेघगर्जन [ यशः ] श्रिये' तथागताय । नमः सर्वधर्मप्रभासव्यूहश्रिये तथागताय । नमो द्रुमराजविवर्धितश्रिये तथागताय । नमो रत्नाचिः पर्वतश्रिये तथागताय । नमो ज्ञानाचि:सागरश्रिये तथागताय । नमो महाप्रणिधिवेगश्रिये तथागताय । नमो महामेघश्रिये तथागताय । नमः स्मृतिकेतुराजश्रिये तथागताय । नम इन्द्रकेतुध्वजराजश्रिये तथागताय । नमः सर्वधनधान्याकर्षणश्रिये तथागताय । नमः सौम्याकर्षणश्रिये तथागताय । नमो लक्ष्म्याकर्षणश्रिये तथागताय । इमानि तथागतनामानि सत्कृत्य धारयितव्यानि वाचयितव्यानि एवं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति ।
व्याकृता च श्रीमहादेवी तथागतैः I भविष्यसि त्वं श्रीमहादेवि अनागतेऽध्वनि श्री [ महा ] रत्नप्रतिमण्डितायां * लोकधातौ तव श्रीमणिरत्नसम्भवो नाम तथागतोऽर्हन् सम्यक् सम्बुद्धः । सा च लोकधातुर्नानादिव्यरत्नप्रतिमण्डिता भविष्यति । 1. Ms. निर्मितमेघसम्बर० Tbধজ'ম-ৗা'ম" মুম-সই སྐྲ་སྙན་པའི་དཔལ་ལ་ ཕྱག་འཚལ་ལོ །
3 Ms. धारयितव्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
६७
2 Ms. सत्कृत्यम् ।
4. Tib. ठेवा ऐकेस |