SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५.६ सर्वतथागताधिष्ठान-सत्त्वावलोकन- बुद्ध क्षेतसन्दशन- व्यूहम् नमः सर्वतथागतानाम् तद्यथा बुद्धे सुबुद्धे शुद्धमते । लोके विलोके लोकातिक्रान्ते । सत्त्वावलोकने सर्वतथागताधिष्ठानाधिष्ठिते । सर्वशापरिपूरणे द्युतिधरे नरके च पूजिते तथागतज्ञानददे तथा - गताधिष्ठाने च । सर्वलोकः सुखी भवतु । पूर्वकर्म क्षपय । मम "नात्सेहं मारपतिशुक्षिणस्य आयषदिक महाश्राद्वोपासक शुलिवज्रस्य” " Acharya Shri Kailassagarsuri Gyanmandir रक्षा भवतु सर्वभयेभ्यः तथागताधिष्ठानेन स्वाहा ॥ इमानि तानि कुलपुत्राहो मन्त्रपदानि विंशत्या तथागतसहस्रैर्भाषितानि अधिष्ठितानि मयाप्येतर्हि भाषिता [ नि] सर्वसत्त्वानामर्थाय हिताय सुखाय रक्षावरण गुप्तये सर्वव्याधिप्रशमनकराणि बुद्धक्षेत्रोपपत्तये । यः कश्चित् पर्ष एवं जानीयुः कथं नु वयं सर्वानेतान् तथागतभाषितान् गुणान् प्रतिलभेय तेन कल्यमेवोत्थाय सर्वसत्त्वानां दयाचित्तेन करुणाचित्तेन मैत्रचित्तेन ईर्ष्यामानम्रक्षक्रोधपरिवर्जितेन एकाग्रचित्तेन बुद्धस्योदारतरां पूजां कृत्वा दशदिशं सर्वतथागतानां नमस्कृत्वा यथाकामं गुणान् मनसिकृत्य अष्टशतं जप्य पुष्पमेकैकं तथागते देयम् । ततस्तस्य सर्वाशासमृद्धि - भविष्यति । खप्ने च तथागतदर्शनं भविष्यति । यं वरम् इच्छति तं लभते । मरणकाले च तथागतदर्शनं भविष्यति । च्युत्वा सुखावत्यां च लोकधातौ' उपपत्स्यते । आयुर्बलवर्णवीर्य समन्वागतः । सर्वशतवश्चास्य वशगामिनो भविष्यन्ति । I For Private and Personal Use Only - 1 The name is not a part of the text but is inserted here for the benefit of the donor of the text. See also infra, p. 56 3 Ms. धातु 2 Ms. पूंजी
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy