________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 515256 |तचापूर्वोत्पादकं ब्रह्मोद्भवं ब्रह्म वेदः सएवोद्भवः प्रमाणे यस्य तत्तथा वेदविहितमेव कर्माऽपूर्वसाधनं जानीहि नत्वन्यत्पाषण्डप्रतिपादितमित्य र्थः ननु पाषण्ड शास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतोवेदप्रतिपादितएव धर्मोनान्यइत्यतआह ब्रह्म बेदाख्यं अक्षरसमुद्भव अक्षरात्परमात्मनोनिर्दोषात्परुषनिश्वासन्यायेनावृद्धिपूर्व समुद्भवआविर्भावोयस्य तदक्षरसमुद्भवं तथा चापौरषयत्वेन निरस्तसमस्तदोषासङ्ग वेदवाक्य | | प्रमितिजनकतया प्रमाणमतीन्द्रियेऽर्थे न तु भ्रमप्रमादकरणापाटवाविप्रलिप्सादिदोषवत्प्रणीतं पाखण्डवाक्यं प्रमितिजनकमिति भावः तथा च | श्रुतिः 'अस्य महतोभूतस्य निश्वसितमेतद्यदृग्वेदोयजुर्वेदः सामवेदोथर्वाङ्गिरसइतिहासः पुराणं विद्याउपनिषदः लोकाः सूत्राण्यनु व्याख्यानान्यस्यैवैतानि निश्वसितानीति' तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशक नित्यमविनाशि च ब्रह्म वेदाख्य यज्ञे धर्माख्येतन्द्रिये प्रतिष्ठितं तात्पर्येण अतः पापण्डप्रतिपादितोपधर्मपरित्यागेन वेदवोधितएव धर्मोनुष्ठेयइत्यर्थः // 15 // भवत्वेवं तत: कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्॥ तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् // 15 // एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः // अघायुरिन्द्रियारामोमोघं पार्थ सजीवति // 16 // 1525152525055525155152 1611R51525251524 किं फलितमित्याह आदौ परमेश्वरात्सर्वावभासकान्नित्यनिर्दोषवेदाविर्भावः ततः कर्मपरिज्ञानं ततोनुष्टानाद्धर्मोत्पादः ततः पर्जन्यं ततोऽन्न ततोभूतानि पुनस्तथैव भतानां कर्मप्रवत्तिरित्येवं परमेश्वरेणैव प्रवर्तितं चक्रं सर्वजगन्निवाहिकं योनानुवर्तयति नानुतिष्ठति सअघायुः पापजीवनोमोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसंभवादित्यर्थः तथा च श्रुतिः 'अथो अयं वा आत्मा सर्वेषां भूतानां लोकः सयज्जुहोति यद्यजते तेन देवानां लोकोऽथयदनुबते तेन ऋषीणामथ यत्पितृभ्योनिपुणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते यदेभ्योशनं ददाति तेन मनुष्याणामथ यत् पशुभ्यस्तुणोदकं विन्दति तेन पशूनां यदस्य गृहेषु वापदावयांस्यापिपीलिकाभ्यउपजीवन्ति तेन तेषां लोकइति ब्रह्मविदं व्यावर्तयति इन्द्रियारामइति यतइन्द्रियविषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवान्विन् व्यर्थमेव जवितत्यिाभप्रायः // 16 // For Private and Personal Use Only