SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 88888尔经很长的 दमित्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमापत्स्यतइति यावत् तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य |च कर्मफलस्य निर्वदं बैतृष्ण्यं गन्तासि प्राप्तासि (पामोषि) परीक्ष्य लोकान्कर्माचतान् ब्रह्मणोनिदमायादिति श्रुतेः निर्वेदेन फलेनान्तःकरणशुद्धि ज्ञास्यसीत्यभिप्रायः // 12 // अन्तःकरणशुद्धचैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षायामाह ते तव बुद्धिः श्रुतिभिर्नानाविधकलअवगैरविचारिततात्पर्विप्रतिपन्ना अनेकविधसंशयविपर्यासवत्वेन विक्षिप्ता प्राक् यदा यस्मिन् काले शुद्धिजविवेकजनितेन दोषदर्शनेन | विक्षेपं परित्यज्य समाधौ परमात्मनि निश्चला जायत्स्वमदर्शनलक्षणविक्षेप रहिता अचला सुषुप्तिम स्तब्धीभावादिरूपलयलक्षणरलनरहिता सती स्थास्यति लयविक्षेपलक्षणी दोषी परित्यज्य समाहिता भविष्यतीति यावत् अथवा निधला संभावनाविपरीतभावनारहिता अचला दीर्घकालादरनैरन्तर्यसरकारसेवनैर्विजातीयप्रत्ययादापिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना तदा तस्मिन्काले योग यदा ते मोहकलिलं बुद्धिय॑तितरिष्यति॥तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला // समाधावचला बुद्धिस्तदा योगमवाप्स्यसि // 53 // // अर्जुनउवाच // स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव // स्थितधीः किं प्रभाषेत किमासीत ब्रजेत किम् // 54 // जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि तदा पुनः साध्यान्तराभावात् कृतकृत्यः स्थितप्रज्ञोभविष्यत्यिभिप्रायः // 53 // एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षूणां मोक्षोपायभूतानीति मन्वानः स्थिता निश्चलाहं ब्रह्मास्मीति प्रज्ञा यस्य सस्थितप्रज्ञोऽवस्थाइयवान् समाधिस्थोव्युत्थितचित्तश्चेति अतोविशिनटि समाधिस्थस्य स्थितप्रज्ञस्य का भाषा लक्षणं समाधिस्थः स्थितप्रज्ञः केन लक्षणेनान्यैर्व्यवन्हियतइत्यर्थः सच व्युत्स्थितचित्तः स्थितधीः स्थितप्रज्ञः स्वयं किं प्रभाषेत स्तुतिनिन्दादावभिनन्दनद्वेषादिलक्षणं किं कथं प्रभाषते सर्वत्र संभावनायां लिज तथा किमासीतेति व्यस्थितचित्तानियहाय कथं बहिरिन्द्रयाणां नियह करोति तषियहाभावकाले च किं व्रजेत|| कथं विषयान्यानोनि तत्कनकभाषणासनत्रजना ने महजनविलक्षणानि कीदृशानीत्यर्थः तदेवं चत्वारः प्रभाः समाधिस्थे स्थितप्रज्ञ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy