SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |रिणः आभ्यासिकसम्बन्धेन शरीरवतः एकस्य आत्मनः स्वप्रकाशस्फुरणरूपस्य संबन्धिनः दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिब्रह्मवादिभिश्च तथाच तैत्तिरीयके अन्नमयाद्यानन्दमयान्तान्पञ्च कोशान् कल्पयित्वा तदधिष्ठानमंकल्पितं ब्रह्मपुच्छं प्रतिष्ठेति दर्शितं तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकोविराट् मूर्तराशिरनमयकोशः स्थलसमष्टिः तत्कारणीभूतोपैञ्चीकृतपञ्चमहाभूततत्कार्यात्मकोहिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः वयं वा इदं नामरूपं कर्मेति बृहदारण्यकोक्तंत्र्यन्नात्मकः सकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोशउक्तः नामात्मकत्वेन ज्ञानशक्तिमात्रमादाय मनोमयकोशउक्तः रूपात्मकत्वेवं तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोशउक्तः ततः प्राणमयमनोमयविज्ञानमयात्मैकएव हिरण्यगर्भाख्योलिङ्गशरीरकोशः तत्कारणीभूतस्तु मायोपहितचैतन्यात्मा सर्वसंस्कारशेषोब्याकृताख्यआनन्दमयकोशः तेच सर्वे एकस्यैवात्मनः शरीराणीत्युक्तं तस्यैषएव शारीरआत्मा यः पूर्वस्येति तस्य प्राणमय स्यैषएव शरीरे भवः शारीरआत्मा यः सत्यज्ञानादिलक्षणोगुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य एवं प्राणमयमनोमयविज्ञानमयानन्द 252525ENSE525155252515251528 अन्तवन्तइमे देहानित्यस्योक्ताः शरीरिणःअनाशिनोप्रमेयस्य तस्माद्युध्यस्व भारत॥१८॥ मयेषु योज्यं अथवा इमे सर्वे देहास्त्रैलोक्यवतिसर्वप्राणिसंबन्धिनएकस्यैवात्मनउक्ताइति योजना तथाच श्रुतिः 'एकोदेवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासः साक्षी चता केवलोनिर्गुणश्चेति' सर्वशरीरसम्बन्धिनमेकमात्मानं नित्यं विभु दर्शयति ननु नित्यत्वं यावत्कालस्थायित्व तथाचाविद्यादिवत्कालेन सह नाशेपि तदुपपन्नमित्यतआह अनाशिनइति देशतः कालतोवस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेपि यावत्कालस्थायित्वरूपमौपचारिक नित्यत्वं व्यव-िहयते यावहिकारन्तु विभागोलोकवदितिन्यायात् आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं ननु परिणामि नित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यं अन्यथा निष्पमाणम्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च तथाच वस्तुपरिच्छेदोदुष्परिहरः शास्त्रयोनित्वादिति न्यायाच अतआंह अप्रमेयस्येति एकधैवानुद्रष्टव्यमेतदप्रमय ध्रुवं अप्रम For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy