SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मितेनोपपादनीयः इष्टसाधनत्वं स्वरूपेणैव लिडादिपदशक्यं न प्रेरणात्वेनेति सार्किकाः तन्न गौरवादन्यलभ्यत्वाद न्वयायोग्यत्वाच इच्छाविषयसाधनत्वापेक्षया प्रवर्तनात्वमतिलघु इच्छातद्विषययोरप्रवेशात् इच्छाज्ञानस्यापि प्रवृत्तिज्ञानवत् *प्रवृत्तिहेतुत्वायातात् वस्तुगत्या यइच्छाविषयस्तत्साधनमितिशब्दनप्रतिपादयितुमशक्यत्वात साधनत्वमात्रस्यैव शक्यत्वे च तेनैव प्रत्ययेनोपस्थापितया प्रवृत्त्या सहश्रुत्या तदन्वयसंभवे पदान्तरोपस्थापितस्वर्गेण सहवाक्येन तदन्वयासंभवात् प्रवर्तनात्वएव पर्यवसानं श्रुत्या वाक्यस्य बाधात् प्रत्ययश्रुतेः पदश्रुतितोपि बलीयस्त्वेन पशुना यजेतेस्यत्र प्रकृत्यर्थं पशुं विहाय प्रत्ययार्थेन करणेन सहवैकत्वस्यान्वयादेकं करणं पशुरिति वचन व्यक्त्या क्रत्वगत्वमेकत्वस्य स्थितं किमुवक्तव्यं पदान्तरसमभिव्याहाररूपाहाण्या| दलीयस्त्वमिति वाक्यार्थान्वयलभ्यत्वाच्च नेष्टसाधनत्वं पदार्थः तथा हि पवर्तनाकर्मभूता पुरुषप्रवृत्तिरूपार्थभावना कि केन कथमित्यंशत्रयवती विधिनालम्बत्वेन प्रतिपाद्यतइत्युक्तं प्राक् अपुरुषार्थकर्मिकायां च तस्यां प्रवर्तनानुपपत्तरेकपदोपस्थापितमप्यपुरुपार्थ धात्वर्थ विहाय भिन्न पदोपात्तमन्याविशेषणमपि कामपदसंबन्धेन साध्यतान्वययोग्यं स्वर्गमेव पुरुषार्थ साभाव्यतयालम्बते स्वर्ग कामयते स्वर्गकामइति कर्मण्याणि द्वितीयायाअन्तर्भूतत्वात् यजतेरकर्मकत्वन स्वर्गमित्युक्तेनानन्वयाच अतएव यत्र कामिपदं न श्रूयते तत्रापि तत्कल्प्यते यथा प्रतितिष्ठन्ति हवायएतारात्रीरुपयन्तीत्यादौ प्रतिष्ठाकामारात्रिसत्रमुपेयुरित्यादि एवंच लब्धभाव्यायां तस्यां समानपदोपस्थापितोधात्वर्थएव करणतयान्वेति भाव्यांशस्य कर्मिविषयेणावरुद्धत्वात् सुधिभाक्तियोग्ये धात्वर्थनामधेये ज्योतिष्टोमादौ | तृतीयाश्रवणात् यत्रापि नामधेये द्वितीया श्रयते तत्रापि व्यत्ययानुशासनेन नतीयाकल्पनात् तदुक्तं महाभाष्यकारैरग्निहोत्र जुहोतीनि ततीयाथै द्वितीयेति अतएवतैः प्रकृतिप्रत्ययौ प्रत्ययार्थ सहब्रूतस्तयोः प्रत्ययार्थः प्राधान्येन प्रकृत्यों गुणवेनेति प्रत्ययार्थ भावना पनि धात्वर्थस्य गुणवेन करणत्वमुतं आख्यातं क्रियाप्रधानमिति वदद्भिनिरुक्तकारैरप्येतदेवोतं भावार्थाधिकरणेच नथैव स्थितं तेन सर्वत्र प्रत्ययार्थ प्रति धात्वर्थस्य करणत्वेनैवान्वयनियमः अतएव गुणविशिष्टधात्वर्थविधो धावनुवादेन केवल गुणविधी च मत्वर्थलक्षगाविधेविप्रकृष्टविषयत्वं च यथा सोमेन यजेतेति विशिष्टविधौ सोमवता योगेनेति दधा जुहोतीति गुणविधी दधिमता होनेोणी नामधियान्वयेनु सामानाधिकरण्योपपत्तेर्धात्वर्थमात्रविधानाच न मत्वर्थलक्षणा नवा विधिविपकर्षः तदेवं ज्योतिष्टोमेन या स्वर्गकामइत्यत्राख्यानार्थोभावयेदिति किमित्याकाङ्क्षायां कमिविषयं स्वर्गमिति विधिश्रुतेर्बलीयस्वादाकाङ्कायाउत्कटत्वाय तथाऽपस्थितं षष्ठाये 5ะวระวังนะ วังเรีวรระวั855555ะวัง For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy