SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मेव वर्मकरीत्वादात्मनोन क त्वमित्यधिष्ठानादिनिरूपणकलमाह तत्र कमणि प्रागुक्ते सर्वस्मिन् एवं सति आधिष्ठानादिपञ्चहेतुके सति | तेनिवर्यमाने आत्मानं सजडप्रपञ्चस्य भासकं सत्तास्फूर्तिरूपं स्वप्रकाशपरमानन्दमबाध्यं केवलमसङ्गोदासीनमकर्तारमविक्रियमादि-८ नीयं तु एव परमार्थतः अविद्यया त्वधिष्ठानादौ प्रतिबिम्बितमादित्यामिव तोये तद्भासकमनन्यत्वेन परिकल्प्य तोयचलनेनादित्यश्वलती| तिवदधिष्ठानार्दिकर्मणोऽह मेव कति साक्षिणमपि सन्तं कर्तार क्रियाश्रयं यः पश्यत्यविद्यया कल्पयति रज्जमिव भुजङ्ग सएवं पश्यनपि न पश्यत्यात्मानं नत्वेन स्वरूपाज्ञानकृतत्वादध्यासस्य सभ्रान्त्या विपरीतमेव पश्यति न यथा तत्त्वमित्यत्र कोहेतुरतआह अकृन-1 बुद्धिवान शास्त्राचार्योपदेशन्यायैरनुपजनितविवेक बुद्धित्वात् नहि रज्जुतत्त्वसाक्षात्काराभावे भुजङ्गभ्रमं कश्चन बाधते एवं शास्त्राचार्योपदेशन्यायैः परिनिलितेऽहमस्मि सत्यं ज्ञानमनन्तमकञभोक्तपरमानन्दमनवस्थमइयं ब्रह्मति साक्षात्कारेनुपजनिते कुतोमिथ्याज्ञानतत्कार्यबाधः एतादृशं साक्षात्कारमेव गुरुमुपसृत्यवेदान्तवाक्यविचारेण कुनोन जनयतीत्यतआह दुर्मतिः दुष्टा विवेकप्रतिबन्धकपापेन मलिना तत्रैवं सति कर्तारमात्मानं केवलं तु यः॥ पश्यत्यकतवुद्धित्वान्न सपश्यति दुर्मतिः॥१६॥ मतिर्यस्य सः अतोशुद्धबुद्धित्वान्नित्यानित्यवस्तुविवेकादिन्यत्वेन तत्त्वज्ञानायोग्यत्वाकर्तारमपि कर्तारं केवलमध्यकेवलमात्मानमविद्यया कल्पयन्संसारी कर्माधिकारी देहभदकृत बुद्धिः कर्मकर्तषु तादात्म्याभिमानात्कर्मत्यागासमर्थः सर्वदा जननमरणप्रबन्धेनानिष्टमिष्टं मिश्रच कर्मफलमनुभवनि एतेन यस्तार्किकोदेहादिव्यतिरिक्तआत्मानमेव कर्तारं केवलं पश्यति सोप्यकृतवुद्धित्वेन व्याख्यातः | अन्यस्त्वाह आत्मा केवलोन कर्ता किन्त्वधिष्टानादिभिः संहतः सन् परमार्थतः कव करिमात्मानं केवलं पश्यन् दुर्मतिरिति केवल शब्दप्रयोगादिति तत्र परमार्थतः सर्वक्रियाशून्यस्यासगरयात्मनोऽधिष्टानादिभिः संहतत्वानुपपत्तेः जलसूर्यकादिवत्वाविद्यकेन संहतत्वेन कर्तत्वमपि तादृशमेव अधिष्ठानादीनामप्याविद्यकत्वाच केवलशब्दस्तु स्वभावसिद्धमात्मनोसङ्गाहितीयरूपत्वमनुवदति कर्तृत्वदर्शिनीदुर्मतित्वहेतुत्वेनेत्यदोषः // 16 // तदेवं चतुर्भिः श्लोकरनिष्टमिष्टं मिभंच त्रिविधं कर्मणः फलं भवत्यल्यागिनां प्रेत्येति चरणत्रयं व्याख्यातमिदानीं न तु संन्यासिनां वविदिति तुरीयं चरण केन व्यावष्टे यस्य पूर्वोक्तविपरीतस्य पुण्यैः कर्मभिः क्षपितेपु विवेकविरोधि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy