________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिगृहीयादिति शास्त्रान् तदेवं भूते दान सात्त्विक स्मृतम् // 20 // प्रत्युपकारार्थ कालान्तरे मामयमुपकरिष्यतीत्येवं दृष्टार्थ फलं वा स्वर्गादिकमुहिश्य यत्पुनर्दानं सात्विकविलक्षणं दीयते परिकिष्टं च कथमेतावड्ययितमिति पश्चात्तापयुक्तं यथा भवत्येवं च यहीयते तहानं राजतं स्मृतम् // 21 // अदेशे स्वतोवा दुर्जनसंसर्गाशा पापहेतावशुचिस्थाने अकाले पुण्यहेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिचित् अशौचकाले वा अपात्रेभ्यश्व विद्यातपोरहितेभ्योनटविटादिभ्यः यहानं दीयते देशकालपात्रसंपत्तावपि असत्कृतं प्रियभाषणपादनक्षालनपूजादिसत्कारशून्यं अवज्ञातं पात्रपरिभवयुक्तं च तहान तामसमुदाहृतम् // 22 / / तदेवमाहारयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानि तान्यादेयानि राजसतामसानि तु परिहर्तव्यानीत्युक्तं तत्राहारस्य वृक्षार्थत्वेन नास्त्यङ्गवैगण्येन पुण्ये | यत्तु प्रन्युपकारार्थ फल मुद्दिश्य वा पुनः // दीयते च परिक्लिष्टं तहानं राजसं स्मृतम् // 21 // अदेशकाले यदानमपात्रेभ्यश्च दीयते // असत्कृतमवज्ञातं तत्तामसमुदात्दृतम् // 22 // तत्सदिति निर्देशोब्रह्मणस्त्रिविधः स्तृतः॥ ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥२३॥ फलाभावशङ्का यज्ञतपोदानानां त्वदृष्टार्थानामगवैगुण्यादपूर्वानुत्पत्तौ फलाभावः स्यादिति सात्त्विकानामपि तेषामानर्थक्यं प्राप्तं प्रमादबहुलत्वादनुष्टानणां अतस्तदेगण्यपरिहाराय ओतत्सदिति भगवन्नामोचारणरूपं सामान्यप्रायश्चित्तं परमकारुणिकतयोपदिशति भगवान् ओं तत्सदित्येवंरूपोब्रह्मणः परमात्मनोनिर्देशः निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकशब्दः नामेति यावत् त्रिविधः तिस्रोविधाअवयवायस्य सत्रिविधः स्मृतः वेदान्तविद्भिः एकवचसावयवमेकं नाम प्रणववन् यस्मात्पुर्वैर्महरिभिरयं ब्रह्मगोनिर्देशः स्मृतस्तस्मादिदानीतनैरपि स्मर्तव्यहति विधिरत्र कल्प्यते वषट् कर्नुः प्रथमभक्ष्यइत्यादिष्विव वचनानित्वपूर्णत्वादिति न्यायान् यज्ञदानतपःक्रियासयोगाश्चास्य नदवैगुण्यमेव फलं नष्टाश्वदग्धरथवन् परस्पराकाङ्क्षया कल्प्यते 'प्रमादाकुर्वतां कर्म प्रच्यवेताम्बरे यत् स्मर For Private and Personal Use Only