________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारोन स्वरूपेणेत्युक्तं कीदृशं पुनस्तस्य स्वरूपं यत्र न संभवति संसारइत्याकानायां तस्य स्वरूप साक्षानिर्दिशन्नाह अस्मिन् प्रकृतिपरिणामे देहे जीवरूपेण वर्तमानोपि पुरुषः परः प्रकृतिगणासंसृष्टः परमार्थतोऽसंसारी स्वेन रूपेणेत्यर्थः यतःउपद्रष्टा यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तत्समीपस्थोऽन्यः स्वयमध्यापतोयज्ञविद्याकुशलत्वावृत्तिग्यजमानव्यापारगुणदोषागामीक्षिता तद्वत् कार्यकारणव्यापारेषु स्वयमव्यापृतोविलक्षणस्तेषां कार्यकरणानां सव्यापाराणां समीपस्थोद्रष्टा न तु कर्ता पुरुषः 'स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसझनेह्ययं पुरुषहति। श्रुतेः अथवा देहचक्षुमनोबुद्ध्यात्मलु वृष्टेषु मध्ये बाह्यान् देहादीनपेक्ष्यात्यव्यवाहितोद्रष्टात्मा पुरुषउपद्रष्टा उपशइस्य सामीप्यार्थत्वात्तस्य चाव्यवधानरूपस्य प्रत्यगात्मन्येव उपद्रष्टा नुमन्ताच भर्ता भोक्ता महेश्वरः // परमात्मेति चाप्युक्तोदेहे स्मिन्पुरुषः परः॥२२॥ पर्यवसानात् अनुमन्ता च कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोपि प्रवृत्तइय सविधिमात्रेण तदनुकूलत्वादनुमन्ता अथवा स्वव्यापारेषु प्रवृत्तान्देहन्द्रियादीन निवारयति कदाचिदपि तत्साक्षेभूतः पुरुषइत्यनुमन्ता साक्षी चेति श्रुतेः भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याभ्यासविशिष्टानां स्वसत्तथा स्फुरणेन च धारयिता पोषयिता च भोक्ता बुद्धेः सुखदुःखमोहात्मकान् प्रत्ययान् स्वरूपचैतन्येन प्रकाशयतीति निर्विकारएवोपलब्ध्वा महेश्वरः सर्वात्मत्वात् स्वतन्त्रवाच महानीश्वरधति महेश्वरः परमात्मा देहादिबुद्ध्यन्तानामविद्ययात्मलेन कल्पितानां परमः प्रकृष्टउपद्रष्टत्वा-1 दिपूर्वोक्तविशेषणविशिष्टआत्मा परमात्माइति अनेन शब्देनापि उक्तः कथितः श्रुतौ चकारादुपद्रष्टेत्यादिशब्दैरपि सएव 4aa पुरुषः परः उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदात्तइत्यपि वक्ष्यते // 22 // तदेवं सत्र योयत्प्रभावश्चेति व्याख्यातं इदानीं यज्ज्ञा For Private and Personal Use Only