SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 स्वधर्म स्वतोजातापि प्रवृत्ति विधेन मो तनिमित्तेन च शोकेन प्रतिबद्धति विविधोमोहस्तस्य निराकरणीयः तत्रात्मनि स्वप्रकाश परमानन्दरूपे सर्वसंसारधर्माऽसंसर्गिणि स्थूलसूक्ष्मशरीरइयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्य| स्वात्मधर्मत्वादिप्रतिभासरूपएकः सर्वप्राणिसाधारणः अपरस्तु युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपोर्जुनस्यैव क|रुणादिदोषनिवन्धनोसाधारणः एवमुपाधित्रयविवेकेन शुद्धात्मस्वरूपबोधः प्रथमस्य निवर्तकः द्वितीयस्यतु हिंसादिमत्वपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावबोधोसाधारणः शोकस्यतु कारणनिवृत्त्यैव निवृत्तेर्न पृथक् साधनान्तरापेक्षेत्यभिप्रेत्य क्रमेण भ्रमद्वयमनुव| दन् श्रीभगवानुवाच // 10 // अशोच्यान् शोचितुमयोग्यानैव भीष्मद्रोणाडीनात्मसहितान त्वं पण्डितोपि सन् अन्वशोचः अनुशोचितवानसि ते नियन्ते मन्निमित्तमहं तैर्विनाभूतः किं करिष्यामे राज्यसुखादिनेत्येवमर्थकेन दृष्टुमं स्वजनमित्यादिना तथा P25251525155152515251525 // श्रीभगवानुवाच // अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे // गतासूनगतातूंश्च नानुशोचन्ति पण्डिताः // 11 // चाशोच्ये शोच्यभ्रमः पश्चादिसाधारणस्तवात्यन्तपण्डितस्यानुचितइत्यर्थः तथा कुतस्त्वाकदमलमित्यादिना महचनेनानुचितमिदमाचरितं मयेति विमर्श प्राप्तपि त्वं स्वयं प्रज्ञोपिसन् प्रज्ञानां अवादान् प्रज्ञैर्वक्तुमनुचितान् शब्दांश्च कथं भीष्ममह सङ्ख्यइत्यादीन भाषसे व| देसि नतु लज्जया नुष्णीभवास अतःपरं किमनुचितमस्तीति सूचायतुं चकारः तथाचाधर्मे धर्मत्वभ्रान्तिर्धर्मे चाधर्मत्वभ्रान्तिरसा | धारणी तवातिपण्डितस्य नोचितेति भावः प्रज्ञावतां पण्डिनानां वादान् भाषसे पर न तु वुध्यसइति वा भा६षणापक्षयानुशोचनस्य प्राक्कालत्वादतीतत्वनिर्देशः भाषणस्य तु तदुत्तरकालवेनाव्यवहितत्वावर्तमानत्वनिर्देशः छान्दसेन तिङ्ख्यत्यये नानुशोचसीति वर्तमानत्वं व्याख्येयं ननु बन्धुविच्छेदे शोकोनानुचितः वसिष्ठादिभिर्महाभागैरपि कृतवादित्याशझ्याह गतासूनिति ये पण्डिताः विचारजन्यात्मतत्वज्ञानवन्तः ते गतप्राणानगतप्राणांव बन्धुत्वेन कल्पितान् देहान् नानुशोचन्ति एतेः मृताःसर्वोपकरण For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy