________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अधुना के सर्वपुरुषार्थभाजोऽशोच्याः ये भगवदेशरणाइत्युच्यन्ते महानने जन्मकृतमुक्तः संस्कृतः क्षुद्रकामाद्यनभिभूतआत्मान्तःकरणं येषां तएव अभयं सत्वसंशुद्धिरित्यादिवक्ष्यमाणां देवीं सात्त्विकी प्रकृतिमाश्रिताः अतएवान्यस्मिन्मयतिरिक्ते नास्ति मनोयेषां ते भूतादि सर्वजगत्कारणमव्ययमविनाशिनं च मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते // 13 // ते केन प्रकारेण भजन्तीत्युच्यते द्वाभ्यां सततं सर्वदा ब्रह्मनिष्ठं गुरुमुपसत्य वेदान्तवाक्यविचारेण गुरूपसदनेतरकालेच प्रणवजपोपनिषदावर्तनादिभिमा सर्वोपनिषत्पतिपायं ब्रह्मस्वरूप कीर्तयन्तः वेदान्तशास्वाध्ययनरूपश्रवणव्यापारविषयीकुर्वन्तइति यावत् तथा यतन्तश्च गुरुसन्निधावन्यत्र वा वेदान्ताविरोधितर्कानुसन्धानेनापामाण्यशद्वानास्कन्दितगुरूपदिष्टमत्स्वरूपावधारणाय यतमानाः 总部的各界的好容的; महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः // अजन्त्यनन्यमनसोज्ञात्वा भूतादिमव्ययम् // 13 // श्रवणनिर्धारितार्थवाधशङ्कापनोदकुतर्कानुसन्धानरूपमननपरायणाइति यावत् तथा वृढवताः दृढानि प्रतिपक्षवालयितुमशक्यानि अहिंसासत्यास्तेयब्रह्मचर्यापरिपहादीनि व्रतानि येषां ते शमदमादिसाधनसम्पन्नाइति यावत् तथा चोकं पतञ्जालना 'अहिंसा सत्यास्तेयब्रह्मचर्यापरिग्रहायमाः तेतु जानिदेशकालसमयानवच्छिमाः सार्वभौमामहाव्रतमिति'। मात्या ब्राह्मणत्वादिकया देशेन तीर्थादिना कालेन चलुर्दश्यादिना समयेन यज्ञायन्यत्वेनान वच्छिन्नाअहिंसादयः - सार्वभौमाः क्षिप्रमुढविक्षिप्तभूनिष्वपि भाव्यमानाः कस्यामपि जातौ कस्मिन्नपिदेशे कस्मिन्नपि काले यज्ञादिप्रयोजनेऽपि हिंसां न कारप्यामीत्येवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्तारते महाव्रतमित्युच्यन्तइत्यर्थः तथा नमस्यन्तश्च मां| कायवाभनोभिर्नमस्कुर्वन्नथ मां भगवन्तं वासुदेवं सकलकल्यागगुणनिधानमिष्टदेवतारूपेण गुरुरूषेण च स्थितं चकारात् | For Private and Personal Use Only