SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir इतस्त्वचेतनवर्गरूपायाः क्षेत्रलक्षणायाः प्रकृतेरन्यां विलक्षणां तु शम्नायथाकथंचिदप्यभेडायोग्यां जीवभूतां चेतनात्मिकां क्षेत्रज्ञलक्षणां मे ममात्मभूतां विशुद्धां परां प्रकृष्टां प्रकृति विद्धि हे महाबाहो यया क्षेत्रज्ञलक्षणया जीवभूतयाऽन्तरनुपविष्टया प्रकृत्या इदं जगदचेतनजानं धावते स्वतोविशीर्य उत्तभ्यते 'अनेन जीवनात्मनाऽनुपविश्य नामरूले व्याकरवाणीति ' श्रुतेः न हि जीवरहितं धारयितुं शक्यमित्यभिप्रायः // 5 // उक्तप्रकृतिहये कार्यलिङ्गकमनुमान प्रमाणयन् स्वस्य तद्वारा जगत्स्ट्यादि कारणत्वं दर्शयति एते अपरत्वेन परत्वेन च प्रागुक्त क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्ये तान्येतद्योनीनि भूतानि भवनधर्मकानि सर्वाणि चेतनाऽचेतनात्मकानि जनिमन्ति निखिलानीत्येवमुपधारय जानीहि कार्याणां निइचियन्थिरूपत्वात्तत्कारणमपि चिदचियन्यिरूपमनुमन्नुमित्यर्थः एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभुते यतः प्रकृती जगतस्तत्तद्वाराऽहं सर्वज्ञः सर्वेश्वरोऽननशक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य एतद्योनीनि भूतानि सर्वाणीत्युपधारय // अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा // 6 // मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय // मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव // 7 // कार्यवर्गस्य प्रभवउत्पत्तिकारणं प्रलयस्तथा विनाशकारणं स्वामिकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टाचत्यर्थः // 6 // यस्मादहमेव मायया सर्वस्य जगतोजन्मस्थितिभङ्गहेतुस्तस्मात्परमार्थतः निखिलदृश्याकारपरिणतमायाधिष्ठानात्सर्वभासकान्मत्तः सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतात्स्वत्प्रकाशपरमानन्दचैतन्यधनात्परमार्थ सन्मात्रात्स्वमवृशाइव स्वामिक मायाविनइव मायिक शुक्तिशकलावच्छिन्नचैतन्यादिवदज्ञानकल्पितं रजत परतरं परमार्थ सत्यमन्यत्किञ्चिदपि नास्ति हे धनजय मयि कल्पितं परमार्थतीन मत्तोभिद्यतइत्यर्थः 'तदनन्यत्वमारम्भणशब्दादिभ्यहति' न्यायात, व्यवहारदृष्टया तु मयि सद्भुपे स्कुरणरूपे च सर्वमिदं जडजातं प्रोतं यथितं मत्सत्जया मदिव मत्स्कुरगेन च स्फुरदिव व्यवहाराय मायामयाय कल्पते सर्वस्य चैतन्यपथितत्वमात्रे दृष्टान्तः सूत्रे मणिगणाइवेति अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वमदृशि | For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy