________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय प्रतिपक्षान्तरमाह श्रद्धावैराग्यादिकल्याणगुणाधिक्ये तु भोगवासनाविरहात्पुण्यकृतां लोकानप्राप्यैव योगिनामेव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां कुले भवति धीमतां ब्रह्मविद्यावतां एतेन योगिनामिति न कर्मिग्रहणं यच्छुचीनां श्रीमतां राज्ञां गृहे योगभ्रष्टजन्म तदपि दुर्लभं अनेकसुकृतसाध्यत्वान्मोक्षपर्यवसायित्वाञ्च यत्तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्मविद्यावतां कुले जन्म एतद्धि प्रसिद्धं शुकादिवत् दुर्लभतरं दुर्लभं लोके यदीदृशं सर्वप्रमादकारणशून्यं जन्मेति द्वितीयः स्तयते भोगवासनाशुन्यत्वेन सर्वकर्म संन्यासार्हत्वात् // 42 // एतादृशजन्मइयस्य दुर्लभत्वं कस्मात् यस्मात् तत्र द्विप्रकारेपि जन्मनि पूर्वदेहे भवं पौर्वदोह के सर्वकर्मसंन्यासगुरूपसदनश्रवणमनननिदिध्यासनानां मध्ये यावत्पर्यन्तमनुष्ठितं तावत्पर्यन्तमेव तं ब्रह्मात्मैक्यविषयया बुद्ध्या संयोग तत्साधनक 15251525152515251525055 अथवा योगीनामेव कुले भवति धीमतां // एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् // 42 // तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् // यतते च ततोभूयः संसिद्धौ कुरुनन्दन // 43 // / लापमिति यावत् लभते प्राप्नोति न केवलं लभतएव किंतु ततस्तल्लाभानन्तरं भूयोधिकं लब्धायाभमेरग्रिमां भूमि सम्पादयितुं संसिद्धौ संसिद्धिर्मोक्षस्तन्निमित्तं यतते च प्रयत्नं करोति च यावन्मोक्ष भूमिकाः संपादयतीत्यर्थः हेकुरुनन्दन तवापि शुचीनां श्रीमतां कुले योगभ्रष्टजन्म जातमिति पूर्ववासनावशादनायासेनैव ज्ञानलाभोभविष्यतीति सूचयितुं महाप्रभावस्य कुरोः कीर्तनं अयमोंभगवदसिष्ठ-1 बचने व्यक्तः यथा श्रीरामः 'एकामथ द्वितीयां वा तृतीयां भूमिकामुत आरूढस्य मृतस्याथ कीदृशी भगवन् गतिः पूर्वं हि सप्तभूमयोव्याख्याताः तत्र नित्यानित्यवस्तुविवेकपूर्वकादिहामुत्रार्थभोगवैराग्याच्छमदमश्रद्धातितिक्षा सर्वकर्मसंन्यासादिपुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका साधनचतुष्टयसम्पदिति यावत् ततोगुरुमुपसृत्य वेदान्तवाक्यविचारणात्मिका द्वितीया भूमिका श्रवणमनन For Private and Personal Use Only