SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRRRRRRRRRRRRREEterities सेवया योगाभ्यासपाटवेन जातेसति वित्तं निरुद्धं एकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनानिवदुपशाम्यन्नित्तिकतया सर्ववत्तिनिरोधरूपेण परिणतं भवति यत्र च यस्मिंश्च परिणामें सति आत्मना रजस्तमोऽनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनात्मानं प्रत्यक्वैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तमद्वितीयं पश्यन् वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति न देहन्द्रियसड्डाते न वा कदाग्येऽन्यत्र परमात्मदर्शने सत्यनुष्टिहेत्वभावात्तुष्यत्येवेति वा तमन्तःकरणपरि|णाम सर्वचित्तवृत्तिनिरोधरूपं योगं विद्यादिति परेणान्वयः यत्र काले इति तु व्याख्यानमसाधु तच्छन्दाऽनन्वयात् // 20 // आत्मन्येव तोषे हेतुमाह यत्र यस्मिन्नवस्थाविशेपे आत्यन्तिकमनन्तं निरतिशयं ब्रह्मस्वरूपं अतीन्द्रियं विषयेन्द्रियसंप्रयोगानभिव्यङ्गन्यं बुद्धियायं बुद्ध्यैव रजस्तमोमलरहितया सत्त्वमात्रवाहिन्या पाचं सुखं योगीवेत्ति अनुभवति यत्र च स्थितोयं विद्वांस्तत्त्वतआत्मयत्रोपरमते चित्तं निरुद्धं योगसेवया // यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति // 20 // सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियं // वेत्ति यत्र न चैवायं स्थितश्चलति तत्वतः॥२१॥ स्वरूपान्नैव चलान तं योगसंजित विद्यादिति परेणान्वयः समानः अत्रात्यन्तिकमिति ब्रह्म तुखस्वरूपकथनं अतीन्द्रियमिति विषयमुखव्या मृत्तिः तस्य विषयेन्द्रियसंयोगसापेक्षत्वात् बुद्धिग्राह्यमिति सौनसुखव्यावृत्तिः सुप्री बुद्धीनत्वात् समाधौ निर्वत्तिकायास्तस्याः सत्त्वान् तदुक्तं गौडपादैः 'लीयते तु सुषुप्तौ तन्निगृहीतं न लीयतहाते! तथा च भूयते ' समांधिनिधूतमलस्य चेतसोनिवेशितस्यात्मनि यत्सुखं भवेन् न शक्यते वर्णयितुं गिरा तदा यदेतदन्तः करणेन गृह्यत इतिः अन्तःकरणेन निरुद्ध सर्ववृत्तिकेनेत्यर्थः वृत्त्या तु सुखास्त्रादनं गौडाचार्येस्तत्र प्रतिषिद्धं नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेदिति महदिदं समाधौ सुखमनुभवामीति सविकल्प उत्तिरूपा प्रज्ञा सुखास्वादः तं व्युत्थानरूपत्वेन समाधिविरोधित्वाद्योगी न कुर्यात् अतएव तादृश्या प्रज्ञया सह सङ्गं परित्यजेत्तां निरुन्थ्यादित्यर्थः निवृत्तिकेन तु चित्तेन स्वरूपसुखानुभवस्तः प्रतिपादितः स्वस्थं शान्तं सनिर्वाणभकथ्यं सुखमत्तममिति स्पष्ट चैतदुपरिष्टात्कारप्यते // 21 // यत्र न चैवायं स्थितश्वलति तत्त्वतइत्युक्तमुपपादयति यं च निरति 2152515251525152515262525 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy