SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. रूप्येग भ्रानाः केचित्तदेव चेतनमित्याहुः तदसङ्कयेयवासनाभिश्चित्तमपि परार्थ संहत्यकारित्वान् यत्य भोगापवर्गार्य तत्तएव परधेितनाऽसंहतः पुरुषोन तु घटादिवत् संहत्यकारि चित्तं चेतनमित्यर्थः एवं च विशेषदर्शिनआत्मभावभावनानिवृत्तिः एवं योन्तःकरणपु| रुषयोर्विशेषदर्शी तस्य याऽन्तःकरणे प्रागविवेकवशादात्मभावनासीत्सा निवर्तते भेददर्शने सत्यभेदभ्रमानुपपत्तेः सत्वपुरुषयोविशेषदर्शन च भगवर्पितनिष्कामकर्मसाध्यं तल्लिङ्गं च योगभाष्ये दर्शितं यथा प्रावृषि तृणाङ्करस्यो देन तद्वीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन सिद्धान्तरुचिरशान् यस्य लोमहर्षाश्रुपातौ दृश्येते तत्राप्यास्ति विशेषदर्शनबीजमपवर्गभागी यं कर्माभिनिवर्तितमित्यनुमीयते यस्य तु तादृशं कर्मबीजं नास्ति तस्य मोक्षमार्गश्रवणे पूर्वपक्षयुक्तिषु रुचिर्भवत्यरुचिश्च सिद्धान्तयुक्तिषु तस्य कोहमासं कथमहमासमित्यादिरात्मभावभावना स्वाभाविकी प्रवर्नते सा तु विशेषदर्शिनोनिवर्ततइति एवं सति किं स्यादिति तदाह तदा विवेकनिम्न कैवल्यपारभारं| चित्तं निनं जलप्रवहणयोग्योनीचदेशः प्राग्भारस्तदयोग्यउच्चप्रदेशः वित्तं च सर्वदा प्रवर्तमान वृत्तिप्रवाहेण प्रवहज्जलतुल्यं तत्यागात्मानात्माविवेकल्पविमार्गवाहिविषयभोगपर्यन्तमस्यासीत् अधुना त्वात्मानात्मविवेकमार्गवाहि कैवल्यपर्यन्तं संपद्यत इति अस्मिंश्च विवेकवाढनि चिते येन्तरायास्ते सहेतुकानिवर्तनीयाइत्याह सूत्राभ्यां तच्छिद्रे प्रत्ययान्तराणि संस्कारेभ्यः हानमेषां क्लेशवरक्तं' तस्मिन्विवेक वाहिनि चित्ते छिद्रेष्वन्तराले प्रत्ययान्तराणि व्युत्क्यानरूपाण्यहं ममेत्येवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाणेभ्योपि प्रादुर्भवन्ति एषां च संस्कारागां के शानामिव हान मुक्तं यथा लेशाअविद्याइयोज्ञानामिना दग्धवीजभावान पुन चित्तभूमौ प्ररोहं पानुवन्ति तथा जानामिना दग्धवीजभाषाः संस्काराः प्रत्ययान्तराणि न प्ररोहुमर्हन्ति ज्ञानाप्रिसंस्कारास्तु याववित्तमनुशेरतहति एवं च प्रत्ययान्तरानुदयिन विवेकवाहिनि चित्ते स्थिरीभूते सति प्रसङ्कायानेप्यकुसीदस्य सर्वथा विवेकख्यानेधर्ममेघः समाधिः प्रसङ्गल्यानं सत्वपुरुषान्यताख्यातिः शुद्धात्मज्ञानमिति यावत् तत्र बुद्धेः सात्विके परिणामे कृतसंयमस्य सर्वेषां गुणपरिणामानां स्वामिवदाक्रमणं सर्वाधिष्ठानत्वं तेषामेव च शान्तोदिताव्यपदेश्यधार्मिखेन स्थितानां यथावद्विवेकज्ञानं सर्वज्ञातत्वं च विशोका नाम सिद्धिः फलं तद्वैराग्याच कैवल्यमुक्त सत्वपुरुपान्यताख्यातिमात्रस्य सर्वभावाधिष्टातृत्वं सर्वज्ञातृत्वं च तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति सूत्राभ्यां तदेतदुच्यते तस्मिन् | प्रसइयाने सत्यप्य कुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारं विवेकख्यातेः परिपोषाद्धर्ममेघः समाधिर्भवति 'इज्याचारदमासिादानस्वाध्यायकर्मणां अयं तु परमोधर्मायद्योगेनात्मदर्शनभिति' स्मृतेधर्म प्रत्यग्ब्रीश्यसाक्षात्कार मेहति सिञ्चतीति धर्ममे 於8888888 // 77 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy