SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 73 // जितात्मनः स्वबन्धुत्वं विवृणोति शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिभवयोश्चित्सविक्षेपहेत्वोः सतोरपि तेषु समत्वेनेति वा जितात्मनः प्रागुकस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभावः आत्मा समाहितः समाधिविषयोयोगारू होभवति परामिति वा छेदः जितात्मनः प्रशान्तस्यैव पर केवलमात्मा समाहि तोभवति नान्यस्य तस्माज्जितात्मा प्रशान्तश्च भवेदित्यर्थः॥७॥ किंत्र ज्ञानं शास्त्रोक्तानां पदार्यानामौपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्का निराकरणफलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्यां तृप्तः संजातालम्पत्यय आत्मा चित्तं यस्य सतथा कूटस्थोविषयसनिधावपि विकारशून्यः अतएव विजितानि रागद्वेषपूर्वकादिषयग्रहणाझ्यावर्तितानीन्द्रियाणि येन सः अतएव हेयोपादेयबुद्धिशून्यत्वेन जितात्मनः प्रशान्तस्य परमात्मा समाहितः // शीतोष्णसुखदुःखेषु तथा मानापमानयोः // 7 // ज्ञानविज्ञानतृप्तात्माकूटस्थोविजितेन्द्रियः // युक्तइत्युच्यते योगी समलोठाश्मकाञ्चनः // 8 // सुदृन्मित्रायुदासीनमध्यस्थद्वेष्यवन्धुपु॥साधुष्वपि च पापेषु समबुद्विविशिष्यते // 9 // | समानि मृत्पिण्डपाषाणकाञ्चनानि यस्य सः योगी परमहंसपरिव्राजकः परवैराग्ययुक्तोयोगारूडइत्युच्यते // 8 // सुत्दृन्मित्रादिषु सम बुद्धिस्तु सर्वयोगिश्रेष्ठइत्याह सुत्दृत्वत्युपकारमनपेक्ष्य पूर्वस्नेह संबन्धंच विनैवोपकर्ता मित्र नेहेनोप कारकः अरिः स्वकृतापकारमनशापेक्ष्य स्वभावक्रौर्येणापकर्ता उदासीनोविवदमानयोरुभयोरप्युपेक्षकः मध्यस्थोविवदमानयोरुभयोरपि हितैषी देष्यः स्वकृतापकारमपेक्ष्यापकर्ता बन्धुः संबन्धेनोपकर्ता एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शाखप्रतिषिद्धकारियपि चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदकर्मेत्यव्याप्तबुद्धिः सर्वत्र रागवेषशून्यः विशिष्यते सर्वतउत्कृष्टोभवति विमुच्यतइति वा पाठः // 9 // एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्ग योनं विधत्ते योगीत्यादिभिः सयोगी परमोमतइत्यन्तस्त्रयोविंशत्या श्लोकः तत्र एवमुत्तमफलपापये योगी योगा // 73 // 18 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy