SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *256NShetkheteen धार्तराष्ट्राणां सैन्ये शङ्कादिध्वनिरतितुमुलोपि नपाण्डवानां सोभकोभूत् पाण्डवानां सैन्ये जातस्तु सशङ्कयोषोधाराष्ट्राणां धृतराष्ट्रस्य नत्र सम्बन्धिनां सर्वेषां भीष्मद्रोणादीनामपि दृदयानि व्यदारयत् हृदयविदारणतुल्या व्यथां जनितवानित्यर्थः यतस्तुमुलस्तीवः नभश्च पृथिवींच प्रतिध्वनिभिरापूरयन् // 19 // धार्तराष्ट्राणां भयप्राप्ति प्रदर्य पाण्डवानां तदैपरीत्यमुदाहरति अथेत्यादिना भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्नेपि तद्विरुहूतया युद्धोद्योगेनावस्थितानेव परान् प्रत्यक्षेणोपलभ्य तदा शस्त्रसम्पाते प्रवर्तमानेसति वर्तमाने क्तः कपिध्वजः | पाण्डवः हनूमता महावीरेणध्वजरूपतयानुगृहीतोर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य दृषीकेशमिन्द्रियप्रवर्तकत्वेन स सघोषोधार्तराष्ट्राणां हृदयानि व्यदारयत् // नभश्च पृथिवीं चैव तुमुलोव्यनुनादयन्॥१९॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः॥ प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥ 20 // हृषीकेशं तदा वाक्यमिदमाह महीपते // सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत // 21 // निःकरणवृत्तिजं श्रीकृष्णमिदं वक्ष्यमागं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किचित्कृतवानिति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावात्तव जयोनास्तीति महीपते इति सम्बोधनेन सूचयति तदेवार्जुन वाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः सन्निहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरोनियुज्यतेर्जुनेन किंहिभक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठनीति ध्रुवोजयः पाण्डवानामिति नन्वेवं रथं स्थापयन्तं मामेते शत्रवोरथात् च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्कयाह अच्युतेति देशकालवस्तुप्वच्युतं त्वां कोवा च्यावयितुमर्हतीतिभावः एतेन सर्वदा निर्वि| कारत्वेन नियोगनिमित्तकोपोपि परिदृतः // 20 // 21 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy