SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ने तनिष्टाः सर्वकर्मसंन्यासेन तदेकविचारपराइत्यर्थः फलरागे सति कथं तत्साधनभूतकर्मत्यागइति तत्राह तत्परायणाः तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः सर्वतोविरक्ताइत्यर्थः अत्र तदृद्धयइत्यनेन साक्षात्कारउक्तः तदात्मानइत्यनास्माभिमानरूपविपरीतभावना| निवृत्तिफलकोनिदिध्यासनपरिपाकः तनिष्टाइत्यनेन सर्वकर्मसंन्यासपूर्वकः प्रमाणप्रमेयगतासंभ्भावनानिवृत्तिफलकोवेदान्नविचारः अत्रणमननपरिपाकरूपः तत्परायणाइत्यनेन वैराग्यप्रकर्षइत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्य उक्तविशेषणायतयोगच्छन्त्यपुनरावृत्ति पुनर्देहसंबन्धाभावरूपां मुक्ति प्रामुवन्ति सकृन्मुक्तानामपि पुनर्देहसंबन्धः कुतोन स्यादिति तत्राह ज्ञाननिधूतकल्मषाः ज्ञानेन निर्धत समूलमुन्मूलित पुनर्देहसंबन्धकारणं कल्मषं पुण्यपापात्मकं कर्म येषां ते तथा ज्ञानेनाऽनाद्यज्ञाननिवृत्त्या तत्कार्यकर्मक्षये तन्मूलक तहुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः // गच्छन्त्यपुनरावृत्तिं ज्ञाननिधूतकल्मषाः॥१७॥ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि // शुनि चैव श्वपाके च पण्डिताः समदर्शिनः // 18 // पुनर्देहग्रहणं कथं भवेदिति भावः // 17 // देहपातादूर्व विदेहकैवल्यरूपं ज्ञानफलमुक्त्वा प्रारम्धकर्मवशात्सत्यपि देहे जीवन्मुक्तिरूपं तत्फलमाह विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा विनयोनिरहङ्कारत्वमनौद्धृत्यमिति यावत् ताभ्यां सम्पन्ने ब्रह्मविदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे तथा गवि संस्कारहीनायां राजस्यां मध्यमायां तथा हस्तिनि शुनि श्वपाके चात्यन्ततामसे सर्वाधमेपि सत्त्वादिगुणैस्तज्जैव संस्कारैरस्पृष्टमेव समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिनः पण्डिताज्ञानिनः यथा गगनतोये तडागे सुरायां मत्रेवा प्रतिबिम्बितस्यादित्यस्य न तद्गुणदोषसंबन्धस्तथा ब्रह्मणोपि चिदाभासद्वारा प्रतिविम्बितस्य नोपाधिगतगुणदोषसंबन्धइति 6 प्रतिसन्दधानाः सर्वत्र समदृष्ट्यैव रागद्वेषराहित्येन परमानन्दस्फूर्त्या जीवन्मुक्तिमनुभवन्तीत्यर्थः // 18 // // 66 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy