SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. कर्माणि तस्मिन्दष्टें परावरइति / तदाधिगमउत्तरपुर्वाधयोरश्लेषविनाशौ तझ्यपदेशात् इतरस्याप्येवमलेश्लेषः पातेत्विति' च सूत्रे अनारब्धे पुण्यपापे नश्यतएवेत्यत्र सूत्र 'अनारब्धकार्ये एव पूर्वे तदवधेरिति' ज्ञानोत्पादकदेहारम्भकाणां तु तदेहान्तएव विनाशः तस्य तावदेव चिर यावन्न विमोत्येय सम्पत्स्यइतिश्रुतेः भोगेन वितरे क्षपयित्वा संपद्यतइति सूत्राच आधिकारिकाणां तु यान्येव | ज्ञानोत्पादकदेहारम्भकाणि तान्येव देहान्तरारम्भकाण्यपि यथा वसिष्टापान्तरतमःप्रभृतीनां तथा च सूत्रं 'यावदधिकारमवस्थितिराधिकाणामितिः अधिकारोनेकदेहारम्भक बलवत्यारब्धफलं कर्म तच्चोपासकानामेव नान्येषां अनारब्धफलानि नश्यन्ति आरब्धफलानि नु यावद्भोगसमाप्ति तिष्ठन्ति भोगश्चैकेन देहेनानेकेन वेति न विशेषः विस्तरस्त्वाकरे द्रष्टव्यः / / 37 // यस्मादेवं तस्मात् न हि | ज्ञानेन सदृशं पवित्रं पावन शुद्धिकरमन्यदिह वेदे लोकव्यवहारे वा विद्यते ज्ञानभिन्नस्याज्ञानानिवर्तकत्वेन समूलपापनिवर्तकत्वाभावात् न हि ज्ञानेन सदृशं पवित्रमिह विद्यते // तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति // 38 // श्रद्धावान्लभते ज्ञानं तत्परः संयतेन्द्रियः // ज्ञानं लब्ध्वा परं शान्तिमचिरे. णाधिगच्छति // 39 // | कारणसद्भावेन पुनः पापोदयाच्च ज्ञानेन त्वज्ञाननिवृत्त्या समूलपापनिवृत्तिरिति तत्सममन्यन्न विद्यते तदात्माविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते तत्राह तत्तु ज्ञानं कालेन महता योगसंसिद्धः योगेन पूर्वोक्तकर्मयोगेन संसिद्धः संस्कृतोयोग्यतामापन्नः स्वयमात्मन्यन्तःकरणे विन्दति लभते ननु योग्यतामापत्रोन्यदत्त स्वनिष्ठतया न वा परनिष्ट स्वीयतया विन्दतीत्यर्थः // 38 // येनैकान्तेन ज्ञानप्राप्तिर्भवति सउपायः पूर्वोक्तप्रणिपाताद्यपेक्षयाप्यासन्नतरउच्यते गुरुवेदान्तवाक्येष्विदमियमेवेति प्रमारूपास्तिक्यबुद्धिः श्रद्धा नद्वान् पुरुषोलभते ज्ञानं एतादृशोपि कश्चिदलसः स्यात्तत्राह तत्परः गुरूपासनादौ ज्ञानोपायेऽत्यन्ताभियुक्तः श्रद्धावांस्तत्परोपि कश्चिदजितेन्द्रियः स्यादतआह संयतानि विषयेभ्योनिवर्तितानीन्द्रियाणि येन ससंयतेन्द्रियः यएवं विशेषणत्रययुक्तः सोवश्यं ज्ञानं लभते प्रणिपातादिस्तु बायोमायावित्वादिसंभवादनैकान्तिकोपि श्रद्धावस्यादिस्त्वैकान्तिकउपायइत्यर्थः ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमा शान्तिमविद्यातत्कार्यनित्तिरूपां 你好尽职尽长沙尔的队长总经 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy