SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. धार्मियद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोसि हन्तताह सन्धिरेव परैरिष्यतां किं विग्रहायहेणेत्याचार्याभिप्रायमाशब्याह तुशब्देनान्तरुत्परशमयं तिरोदधानोधृष्टतामात्मनोद्योतयति अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध रिश्वय मवचनादवधारयेति भावादिकस्य परस्मैपदिनोबुधेरूपं ये च मम सैन्यस्य नायकामुख्यानेतारस्तान्संज्ञार्थं असंख्येषु तेषु मध्ये कतिचि. नामभिहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि नत्वज्ञातं किञ्चिदपि तव ज्ञापयामीति विजोत्तमेति विशेषणेनाचार्य स्तुवस्वकार्य तदाभिमुख्य संपादयति दौटयपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावाद्धाकुशलस्त्वं तेन त्वयि विमुखेपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः संज्ञार्यमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृति| अस्माकं तु विशिष्टाये तान्निवोध द्विजोत्तम॥नायकामम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥७॥ // भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः॥अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च // 8 // अन्ये च बहवः शूरामदथै त्यक्तजीविताः // नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥ 9 // भदिति ममेयमुक्तिरितिभावः तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च समिति संग्राम जयतीति समितिंजयइति | कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशय तन्निरासार्थ एते चत्वारः सर्वतोविशिष्टाः नायकान् गणयति अश्वत्थामा द्रोणपुत्रः भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थ विकर्णः स्वभ्राता कनीयान् सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वामृरिश्रवाः सिन्धुराजस्तथैव चेति क्वचित्पाउः सिन्धुराजः जयद्रथः किमेतावन्तएव |नायकानेत्याह अन्ये च शल्यकृतवर्मप्रभृतयः मदर्थे मत्ययोजनाय जीवितमपि त्यतुमध्यवसिताइत्यर्थेन त्यक्तजीविताइत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते एवं स्वसैन्यबाहल्यं तस्य स्वस्मिन् भाक्तिं शौर्य युद्धोद्योगं युद्धकौशलं च दर्शितं शूराइत्यादिविशेषणैः // 7 // 8 // 9 // * सिन्धुराज स्तथैवच RCMSR9999999NNNN // 3 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy