SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. तत्र यदुच्यते सर्वज्ञस्येश्वरस्य सर्वकारणस्येदृग्देहग्रहणं नोपपद्यइति तत्तथैव कथं यदि तस्य शरीरं स्थूलभूतकार्य स्यात्तदा व्यष्टिरूपत्वे जायदवस्थाऽस्मदादितुल्यवं विराजीवत्वं तस्य तदुपाधित्वात् अथ सूक्ष्मभूतकार्य तदा व्याटिरूपवे स्वभावस्थाऽस्मदादितुल्यत्वं समष्टिरूपत्वे च हिरण्यगर्भजीवत्वं तस्य तदुपाधित्वात् तथाच भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न संभवत्येवेति सिद्ध नच | जीवाविष्टएतादृशे शरीरे तस्यभुतावेशवत्प्रवेशइति वाच्यम् नच्छरीरावच्छेदेन तज्जीवस्य भोगाप्युपगमेऽन्तर्यामिरूपेण सर्वशरीरप्रवेशस्य विद्यमानत्वेन शरीरविशेषाभ्युपगमवैय्यर्थ्यान् भोगाभावेच जीवशरीरत्वानुपपत्तेः अतोन भौतिक शरीरमीश्वरस्येति पूर्वार्धनाङ्गीकरोति अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन्निति अजोपि सन्नित्यपूर्वदेहयहणं अव्ययात्मापि सन्निति पूर्वदेहविच्छेदं भूतानां भवनधर्माणां सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानामीश्वरोपि सन्निति धर्माधर्मवशत्वं निवारयति कथं तर्हि देहग्रहणमित्युत्तरार्द्धनाह प्रकृति स्वामविष्टाय संभवामि प्रकृति मायाख्यां विचित्रानेकशक्तिमघटमानघटनापटीयसी स्वां स्वोपाधिभूतामाध टाय चिदाभासेन वशीकृत्य संभवामि तत्पारणामविशेषैरेव देहवानिव जातइव च भवामि अनादिमायैव मदुपााधिभता यावत्कालस्थायित्वेन च नित्या जगत्कारणत्वसम्पादिका मदिच्छयैव प्रवर्तमाना विशुद्धसत्वमयखेन मम मार्तस्तहिशिष्टस्य चाजत्वमव्ययत्वमीश्वरत्वञ्चोपपन्नं अतोनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रति इमं योगमुपदिष्टवानहमित्युपपन्न तथाचश्रुतिः 'आकाशशर ब्रह्मेति आकाशोत्राच्याकृतं आकाशएव तदोतंच प्रोनचेत्यादौ तथा दर्शनान् 'आकाशस्तविङ्गादिति' न्यायाच तर्हि भौतिकवियहाभावात्तर्ममनुष्यत्वादिप्रतीतिः कथमिति चेत् तत्राह आत्ममाययेति मन्माययैव मयि मनुष्यत्वादिप्रतीतिर्लोकानुग्रहाय न नस्तुव॒त्येनिभावः तथा चोक्तं मोक्षधर्मे 'माया होषा मया मृष्टा यन्मां पश्यसि नारद सर्वभूतगुणैर्युक्तं न तु मां द्र टुमर्हसीति' सर्वभूतगुणैर्युक्तं कारणोपाधि मां चर्मचक्षुषा द्रष्टुं नाहसीत्यर्थः उक्तंच भगवता भाष्यकारेण सच भगवान् ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः सदासम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृति वशीकृत्याजोऽव्ययोभतानामीश्वरोनित्यशुद्धबुद्धमुक्तस्वभावोपि सन् स्वमायमा देहवानिव जातइव लोकानुग्रहं कुर्वन्तक्षते स्वप्रयोजनाभावेपि भूतानुजिवक्षयति व्याख्यातृभिश्चोक्त स्वेच्छाविनिर्मितेन मायामयेन दिव्येन रूपेण संबभूवेति नित्योयः कारणोपाधिर्मायाख्योनेकशकिमान् सएव भगवह इति भाष्यकृतां मतं अन्येतु परमे वरे देहदेहिभावं न मन्यन्ते किन्तु यश्च नित्योविभुः सच्चिदानन्दघनोभगवान्वानुदेवः परिपूर्णोनिर्गुणः परमात्मा सएव ताईन-] // 50 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy