________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ईशाननाथेन समं शतक्रतुः, सनत्कुमाराधिपतिः सुरान्वितः । श्रीब्रह्मलोकाधिपतिश्च सेवते, सगौतम मन्त्रवरं पदे पदे ॥१०॥ अष्टनागकुलनायको मणि-प्रोल्लसत्फणसहस्रभासुरः । गौतमाय धरणः कृताञ्जलि-मन्त्रराजसहिताय वन्दते ॥११॥ रोहिणीप्रभृतयः सुराङ्गना वासना अपि परे सदाश्रवाः । गौतमं मनसि यक्षयक्षिणी श्रेणयोऽपि दधती मुनीश्वरम् ॥१२॥ सज्जलानधनभोगधृतीनां लब्धिरद्भुततमेह भवे स्यात् । गौतमस्मरणतः परलोके भूर्भुवःस्वरपवर्गसुखानि ॥१३॥
आँ की श्री ही मन्त्रतो ध्यानकाले, पार्चे कृत्वा प्राञ्जलिः सर्वदेवान् । कायोत्सर्ग पकर्पूरवासैः, पूजां कुर्यात् सर्वदा ब्रह्मचारी ॥१४॥ जितेन्द्रियः स्वल्पजलाभिषेकवान्,
शुद्धाम्बरो गुप्तिसमित्यलङ्कृतः । श्रीइन्द्रभूतरुपवैणवं गुणान्,
स्मरन्नरः स्यान्छुतसिन्धुपारगः ॥१५॥ तं श्रयन्ति पुरुषार्थसिद्धयो,
__ भूष्यते विशदसाहसेन सः । गौतमः प्रणयिभुक्तिमुक्तिदो,
यस्य भावविभवस्य नाथते ॥१६॥
For Private And Personal Use Only