________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम
त्रिंशत्तमप्रश्नः ॥
पृच्छा
॥
॥८५॥
每部验聯张继继強強強聯柴柴柴染带染染染染染带染蒂:端部张
करोति, लघुआरामान् वनवृक्षान् विनाशर्यात, त्रोटयति मोटयति तथा पुष्पादीनि चुटयति स पुरुषो भवान्तरे कुष्टी भवति गोविन्दपुत्रगोशलवत् ॥ ४५ ॥
अथ तस्य गोशलस्य कथामाह
श्रीप्रतिष्टानपुरे गोविन्दनामा गृही वसति । तस्य भार्या गौरीति नाम्नी । तयोः पुत्रो गोशलाख्यो जातः। परं स | कुव्यसनी निर्दयश्चासीत् । एकदा स एकाकी वनमध्ये गत्वा यष्टिना मध्यालयं पातयामास । पुनः स दावानलं दत्वा शश
कादिजीवान् व्यापादयामास । पुनः स गोशलो वृषभादीन् पशून् अंकयति, डंभं ददाति, नवकिसलयान् वृक्षांश्च छेदयति उन्मूलयति च । तस्यैतत्कार्येण रुष्टैलौंकैस्तस्य पितुरुपालम्भो दत्तः । तदा पित्रा पुत्रमाहूय तस्य शिक्षा दत्ता। परं स तस्य शिक्षा न मन्यते । एवं स सर्वेषामुद्वेगजनको जातः । क्रमेण तस्य पितरौ देवीभूतौ ।
अथ स गोशलो निरंकुशहस्तिवदुच्छंखलो बभूव । एकदा स राज्ञो वनवाटिकायां गत्वा नारिंगादीनुन्मूलयितु लग्नः। तदा तलारक्षेण बन्धनपूर्वकं तं गृहीत्वा स राज्ञोऽग्रे मुक्तः । राज्ञा तस्य सर्वस्वं गृहीत्वा मुक्तः। पुनरेकदा स राज्ञो वाटिकामध्ये गत्वा सुकोमलां वनस्पति छेदयति । तदा वनपालस्तं बध्ध्वा कुट्टयामास ।
ततो बनपालेन राज्ञोऽग्रे गत्वा कथितम्-" हे स्वामिन् । युष्माकं वाटिका गोशलेन विनाशिता।" तदा राज्ञा तस्य गोशलस्य हस्तौ छेदितौ । एवं स दुःखी सन् बहुविधं पश्चात्तापं करोति । उक्तं च-१माय बाप बडातणी, सीख न माने
१जो न मानै वडोकी सीख, ते मागे खपरा लइनै भीख ।।
密苏荣臻強強強強強強密港參密密游密密密密带紫染密密
॥८५॥
For Private And Personal Use Only