________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
श्री गौतम पृच्छा ॥ ७६॥
*************************
इतस्तत्र कश्चिद् ज्ञानी गुरुर्वनमध्ये समवसृतः । तं वन्दितुं स गुणदेवश्रेष्ठी परिवारयुतो वने गतः। वन्दित्वा चाग्रेस स्थितः। तदा गुरुम्तं प्रति (धर्मोपदेशं) कथयति-"भो गुणदेव ! त्वं निजं बधिरान्धं पुत्रं दृष्ट्वा कथं हृदि दुःखं करोषि ? || सप्तविंशयेन पाणिना यत्कर्म कृतं, तस्य तत्कर्मेन्द्रोऽपि दुरीकत समर्थो न भवति । कृतं कर्म स्वयमेव पाणी भुनक्ति"।
तितमाष्टातत् श्रुन्वा गुणदेवः पृच्छति-"भो भगवन् ! अयं पुत्र: केन कर्मणा बधिरान्धो जातः? तन्मयि कृपां विधाय
विंशतित
*मप्रश्नो॥ कथयत ?" तदा गुरुर्वदति
अस्मिन्नेव नगरे वीरमनामैकः कुटुम्ब्यवसत् । परं सोऽधर्मी कूटभाषी परनिन्दा परदोषं च वदति । कस्यचिच्छिरसि | कूटं कलंकं ददाति । अथेको सीमाडकराजा तस्य नगरस्य स्वामिनो वैरी वर्तते । ततो लोकास्तस्माद्राज्ञो भयं प्राप्नुवन्ति । इतः कौचिद् द्वौ पुरुषावकान्ते परस्परं किंचिन्मन्त्रमालोचयतः। तदा वीरमस्तौ दृष्ट्वा तलारक्षपाई गत्वा कथयति 'यदेतो द्वौ पुरुषौ सीमाडकराजानमाकारयतः । तदा तलारक्षकेण तौ द्वौ पुरुषौ बन्धयित्वा राज्ञोऽग्रे स्थापितौ । राज्ञा ताभ्यां पृष्टम् - "युवाभ्यां किं मन्यमालोचितम् ? " तदा ताभ्यामुक्तम्-" भो स्वामिन् ! आधाभ्यां किंचिद् गृहकार्यमालोचितम् , अन्यत्र किमपि मन्त्रं न कृतम्"। परं दुष्टेन वीरमेणोक्तम्-"स्वामिन्नेतावसत्यं वदतः"ततो राज्ञा वीरमस्य वचनं सत्यं मत्वा तो द्वावपि दण्डितौ।
अथैकदा पुनर्घामादागच्छतः कस्यचित् श्रेष्टिनो मार्ग स वीरमो मिलितः। तदा तं वीरमं पति श्रेष्ठिना प्रोक्तम्" अस्ति मम गृहे समाधिः ?' तदा तेन दुष्टेन वीरमेणोक्तम्-"तव गृहे कामदेवः प्रत्यहं याति तव वनितां च भुक्ते"।
७६॥
张聽器盤张张猛张张张张振器器器張端影器器张张张
For Private And Personal Use Only