SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंश तितम थी गौतमपृच्छा ।। ॥६९॥ प्रश्नः ॥ *%%********************** अथ धनस्तत उत्थाय शालिभद्रपार्श्व गत्वा तमपि प्रतिबोध्य तेन सह श्रीश्रेणिकराजकृतमहोत्सवः श्रीवीरमभुपा दीक्षा जग्राह । एवं तौ द्वावपि कृतषष्टाष्टमदशमपक्षमासोपवासतपसौ क्रमेणातीवदुर्बलो जातौ । क्रमेण विहरन्तौ तौ श्रीवीरप्रभुणा सह राजगृहनगरे प्राप्तौ। तपःपारणके च भिक्षावसरे तौ श्रीवीरपार्श्वऽनुज्ञार्थ प्राप्तौ । तदा श्रीवीरेण शालिमद्रायोक्तम्-"भो शालिभद्रमुने ! अद्य तव मातुर्हस्तके पारणकं भविष्यति । " अथ तौ क्रमेण भद्राया गृहे समागतौ परं तत्र श्रीवीरप्रभुवन्दनार्थ गमनोत्सुकैः कैरपि तो नोपलक्षितौ, शिक्षार्थन निमन्त्रितौ च । ततः पश्चाद्वलितौ तौ नगरपतोल्यां समागतौ । तदा शालिभद्रस्य पूर्वभवमात्रा धन्नया नगरान्तर्गच्छन्त्या तौ दधिदानपूर्वकं प्रतिलाभितौ । तद् गृहीत्वा तौ श्रीवीग्समीपे समागत्याकथयताम्- "हे भगवन् ! भवदुक्तं अद्य न जा. तम।" तदा श्रीवीरेणोक्तम्-"भो शालिभद्र । ययाऽभीर्या युष्मद्भ्यां दधिदानं दत्तं, सा शालिभद्स्य पूर्वभवमातैवास्ति ।" अथ तो द्वावप्यनशनं विधाय वैभागियुगरि स्थितौ । तदनन्तरं परिवारसहिता द्वात्रिंशद्वधृभिश्च परिवृता भद्रा तत्र वैभारगिरी गत्वा ताभ्यां वन्दनां कृत्वा स्वगृहे गता । तौ द्वावपि अनशनं कृत्वा स्वायुःक्षये सर्वार्थसिद्धिविमाने देवत्वं प्राप्तौ । ततश्युत्वा नरभवं प्राप्य तौ मोक्षं यास्यतः। एवंविधं सुपात्रदानमाहात्म्यं श्रुत्वा तद्विपये भव्यैर्यतितव्यम् । ॥ इति सुपात्रदाने शालिभद्रकथा सम्पूर्णा ॥ १ स्वर्भोगभोगी १ नृपः क्रयाणकं २, सुवर्णनिर्माल्यभूत् लगादिवत् ३ | भूपस्य मानेऽप्यपमानचिन्तनम् ४, शालेर्महाश्चर्यभिदे चतुष्यं ॥१॥ पूर्व न मंत्रो १, तदा विचारः २, स्पर्धा न केनापि ३ फले न वाञ्छा ४ । पश्चानुतापो ५ ऽनुरागो ६ न गर्यो ७ हर्ष ८ 選举杂举张张张张张张张张张张袭杀张张张张张张张柴 ॥६९ * For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy