SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा॥ ॥३ ॥ नवमप्रश्नः॥ PARINEERNHERE बिन्दु विलुप्य तस्य स्थाने 'विषा' इत्यकरोत् । पुनस्तं लेख मुद्रयित्वा दामनकस्य पटाञ्चले सा बबन्ध । ततः स्वयं च निजगृहे समागता। | इतो घटिकानन्तरं दामनकः प्रबुद्धः शीघ्रं नगरमध्ये समागत्य तं लेख श्रेष्टिपुत्राय समुद्रदत्ताय दत्तवान् । समुद्रदत्तेन लेख वाचयित्वा विचारितं " यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् विषये कोऽपि सन्देहो न कार्यः, अतो | मयाऽपि तदाज्ञानुसारेणैव कर्तव्यम् ।" इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः। अथ विवाहादिनद्वयानन्तरं सागरपोतकर्णपथे सा वार्ता गोकुलमध्ये एव समागता । तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः । मार्गे स मनसि चिन्तयति-'मया यत्किञ्चिद्विधीयते तत्सर्व विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यई पुनरेनं व्यापादयामि' इति चिन्तयन् स दुष्टात्मा पिंगलनाम्नस्तस्य मातङ्गस्य गृहे समागत्य तं प्रत्युवाच-"अरे ! चाण्डाल ! स त्वया कथं न मारितः ? सत्यं वद ?" चाण्डालेनोक्तम्-"भो श्रेष्ठिन् । तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं वालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि"। __अथ श्रेष्ठिनोक्तम्-" भो पिंगल ! अद्याहं तं दामनकं सन्ध्याकाले मम गोत्रदेव्या आयतने प्रेषयिष्ये, तदा त्वया तत्र स हन्तव्यः"। अथ सन्ध्यासमये श्रेष्ठी गृहं समागत्य तौ वधूवरको प्रतीदमब्रवीत्-"अरे! युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न १ अहीं कर्म संबंधी वर्णन करवं. 总第能够踏踏游晓聽器蟲器器鉴跳號號號張懿聯盟器端能器的 ॥३४॥ 88 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy