SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥३२॥ ******** ****** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवेत्, अत एनं शिशुं केनाप्युपायेनाहं मारयामि तदा वरं । " इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चाण्डालपाटके पिंगलाख्यचाण्डालस्य गृहे मुक्तवान् । पश्चात्स स्वयमपि तस्य चाण्डालस्य गृहे गतः । तत्र गत्वा तेन तं चाण्डालं प्रत्युक्तम् - " अहं तुभ्यं मुद्रापश्ञ्चकं दास्ये, त्वमेनं शिशुं शीघ्रं हत्वा मां दर्शय ।" इत्युक्त्वा स निजगृहं गतः । अथ स मातङ्गस्तं बालकं सुरूपं वीक्ष्य करुणाऽपरोऽभूत् । ततोऽसौ चिन्तयामास ' यदनेन शिशुनापि सागरपोतस्य Catsuiधः कृतो भविष्यति १ द्रव्यलोभतो मयापीदृक्कर्म नोचितं कर्तु अतो मयाऽस्मै बालाय जीवितदानमेव देयम्' इति चार्य चाण्डालः ककिया तस्य शिशोः कनिष्टाङ्गुलीं छित्वा तं प्रत्युवाच - " भो बाल ! अथ त्वमितो द्रुतं पलायस्व यदि जीवितं वाञ्छसि, अन्यथा त्वामनया क त्रिकयाऽहं व्यापादयिष्यामि । " तत् श्रुत्वा वाताहतद्रुम इव कम्पमानाङ्गः स ततः पलाय्य यस्मिन् ग्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः । तत्र नन्दा - भिधानेनाsपुत्र केन गोकुलस्वामिना स पुत्रतया स्थापितः । अथ स चाण्डालस्तस्य कनिष्टांगुलीं गृहीत्वा सागरपोतस्य पार्श्व समागत्य तं तदभिज्ञानं दर्शितवान् । तद् दृष्ट्वा सागरोऽपि स्वमनसि सहर्षो जातः चिन्तितवांश्च मया मुनेर्वाक्यं विफलीकृतम् । एवं स सागरपोतः सुखेन तिष्टति । अथान्यदा स निजगोकुले गतः । तत्र नन्दगृहे छिन्नाङ्गुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णो जातः, नन्दं च पप्रच्छ - " अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ! सत्यं ब्रूहि ?" तदा नन्देन कथितम् - " अस्य बाल For Private And Personal Use Only नवम प्रश्नः ॥ ॥३२॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy