SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥२५॥ *** www.kobatirth.org "अस्योदन्तस्य साक्षिण्येतद्भार्या नागिला विद्यते । तां विनाऽन्यः कोऽपि साक्षी नास्ति । " - Acharya Shri Kailassagarsuri Gyanmandir तदा राज्ञा नागिलामाहूयोक्तम् - " त्वं सत्यां वाणीं वद ? एतत्स्थापनिका तब भर्तुः पार्श्वे मुक्तास्ति न वा ?" तदा नागिलया चिन्तितम् - " अथ मया किं क्रियते ? इतस्तटिनी इतश्च व्याघ्रः । " अथ प्रान्ते तया राज्ञोऽग्रे सत्यं प्रोक्तं । तदा राजा तस्याः सत्यवचनेन हृष्टः सन् तां वस्त्राभूषणादिभिः सन्मानयामास तस्याः प्रार्थनया च श्रेष्ठिनमपि मुक्तवान् । एवं नगर स्त्रीणां मध्ये नागिला सत्यवादिनी प्रसिद्धा जाता । अथैकदा नागटिनो गृहे मुनिरेकः समागतः। तं नागिला भक्तदानं दत्वा शुभं कर्मोपार्जयामास । ततः क्रमेण सा मृत्वा शुभकर्मोदयस्त्वं पद्मनामा श्रेष्ठी जातः । नागश्रेष्ठी च मायया मृत्वा तवेयं भार्या पद्मिनी जाता । कूटवचन-जल्पनतः सा मुखरोगिणी काहलस्वरा च संजाता । एवं निपूर्वभवं श्रुत्वा वैराग्यवन्तौ तौ द्वावपि जातौ । दीक्षां लात्वा धर्मं च कृत्वा गृहीतानशनौ कर्माष्टकं त्रोटयित्वा शिवं गतौ । अतोऽन्यजनैरपि मृषावचनं न वक्तव्यं, माया च न कर्तव्या ॥ ॥ इति पद्मश्रेष्ठिपद्मिन्योः कथा ॥ ( ५-६ ) सप्तमप्रश्नः - ( अथ श्री गौतमस्वामी सप्तमं प्रश्नं पृच्छति - " हे भगवन्! हे दयालो ! हे जनवत्सल ! हे प्रभो ! केन कर्मणा नपुंसकत्वं जायते ? ७ ) उत्तर:- ( श्रीवीरप्रभुः प्राह ) For Private And Personal Use Only ***************************** पश्चमषष्ठ प्रश्नौ ॥ ॥२५॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy