SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 तृतीय श्री गौतमपृच्छा ॥ ॥२०॥ चतुर्थ प्रश्नी॥ NEETHER कापोतपीतलेश्यावान, धर्मध्यानोपगतः, प्रत्याख्यानकषायवान् , मध्यमपरिणामी, देवतागुरुपूजकः, पूर्वालापप्रियालापयुक्तः सुखप्रज्ञापनीयः लोकयात्रासु माध्यस्थ्यवान् मृत्वा मनुष्यो जायते । “अल्पारम्भपरिग्रहत्वं स्वभावमार्दवं च मानुषस्य" इति | तत्त्वार्थसूत्रे अध्या०६ सू०१८) यथा सागरचन्द्रकुमारः पूर्वोक्तगुणैयुतो मृत्वा मथमकुलकरो विमलवाहननामा जातः ॥२०॥ अथ तयोः सम्बन्धमाह___ महाविदेहे अपराजिता नाम्नी नगरी वर्तते । तत्र चेशानचन्द्रो नामा राजा राज्यं करोति । तत्रैव चन्दनदासाभिधानः श्रेष्ठी वसति । तस्य पुत्रः सागरचन्द्राभिधानः परमगुणवान् सरलो निर्मलाचारश्च वर्तते । तस्यैकं मित्रं अशोकदत्तनामासीत् । परं स मायावी कपटी च वर्तते । सोऽपि तत्रैव वसति । एकदा वसन्तमासे राजा क्रीडार्थ वनमध्ये गतः । सर्वे नगरवासिनो लोका अप्याहूताः सन्तस्तत्र गताः । सागरच. न्द्राऽशोकदत्तौ द्वौ सुहृदावपि तत्र वने गतौ । राजा तत्र स्वपरिवारपग्वृितः क्रीडति । एवमन्येऽपि सर्वे जनाः क्रीडन्ति । इतः सागरचन्द्रेण " मां रक्ष रक्ष" इति कस्याप्यार्त्तशब्दो दूरतः श्रुतः । तदा स जातकृपः खड्गं गृहीत्वैकाकी तच्छब्दानुसारेण ततश्चलितः । तत्र गतेन तेन पूर्णभद्रश्रेष्ठिन: प्रियदर्शनाभिधाना कन्या चौरैरपहियमाणा दृष्टा । तदा सागरचन्द्रेण निजपराक्रमेण चौरेभ्यः सा मोचिता । ततः सागरचन्द्राद्याः सर्वेऽपि लोका निजनिजगृहे समागताः। ___अथैकदा तस्य पित्रा चन्दनदासेन सागरचन्द्रायोक्तम् - " हे पुत्र ! त्वमेतस्य कुमित्रस्याशोकदत्तस्य संगतिं त्यज, श्रीजिनधर्म च पालय ।" तत् श्रुत्वा सागरचन्द्रः कथयति-" भो तात ! यस्मिन् कार्ये लज्जा समागच्छति तत्कार्यमहं न 身游樂器聯弟继继聪继盛器整器蒸發器端端懿聯柴柴酷斃端端 ॥२०॥ HERE For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy