SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180-ER द्वितीयप्रश्नः ॥ श्रीगौतमपृच्छा ॥ ॥१५॥ *** * 端端器樂器樂器瓷器器鑑鑑鑑聽器端發藥器端端聚端懿器踏幾 व्याख्या हे गौतम ! यः पुमान् श्तपसि संयमे २दाने च रक्तो भवति, पुनः प्रकृत्या भद्रका पुनर्यः कृपालु, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा नित्यं देवेषत्पद्यते ॥१८॥ (रत्नत्रयाराधकः, मृत्युकाले पद्मपीतलेश्यापरिणामवान् , बालतपस्वी, अव्यक्तसामायिकवान् मृत्वा देवेषूत्पद्यते । "सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि देवस्य" इति तत्त्वार्थे अध्या० ६ सू० २०) यथा आनन्दश्रावकः, तस्य कथा चेत्थं, तथा हिवाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानन्दनामा एको गृहस्थो वसति । तस्य शिवानन्देति स्त्री घर्तते । तस्य | १ स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चन्दनैरिन्धनाद्यैः, सौवर्गलागलायैः विलिखति वसुधा अर्कतूलस्य हेतोः । धित्वा कर्पूरखंडान् वृत्तिमिह कुरुते कोद्रबाणां समंतात् , प्राप्येमां कर्मभूमिं न चरति सततं यस्तपो मन्दभाग्यः ॥१॥ २ आनन्दाश्रूणि रोमाञ्चो बहुमानं प्रियं वचः । कि चानुमोदना पात्रदानभूषणपञ्चकं ॥१॥ क्षितिगतमिब वटबीजं, पात्रगतं दानमल्पमपि काले । फलति छायाविभवं वहुभृतशरीरभृताम् ॥२॥ चन्दनबालानुं दृष्टान्त ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । | यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥३॥ पश्य दानस्य माहात्म्य, सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी, मित्रतां याति तत्क्षणात् ॥४॥ पुत्रादपि प्रियतरं खलु तेन दानं, मन्ये पशोरपि विवेकविवर्जितस्य । दत्तं खले तु निखिलं खलु येन दुग्धं, नित्यं ददाति महिषी ससुतापि पश्य ॥५॥ सुपात्रदानाच भवेद्धनाढयो धनप्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी, पुनर्धनाढ्यः पुनरेव भोगी ॥६॥ कुपात्रदानाच्च भवेद्दरिद्रो, दरिद्रदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥७॥ ॥१५॥ ** For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy