SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्नः । ॥८॥ महाशवधर्मी तापसद्धि(र्षि)भक्तश्च । द्वावपि तावात्मीयं धर्म प्रशंसतः। एकेनोक्तम्-"श्रीजैनसदृशः कोऽपि धर्मों नास्ति'। श्री गौतम- द्वितीयेन चोक्तम्-"शेवधर्मसदृशोऽन्यो धर्मों न"। द्वावपि वादं कुर्वन्तौ स्वस्वधर्मपरीक्षार्थं मनुष्यलोके समागतो। पृच्छा ॥ ___अथ जैनधर्मिणा वैश्वानरदेवेनोक्तम्-"जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या, शिवधर्म|| मध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्तव्या"। इतो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चम्पानगाँ श्रीवासुपूज्यस्य द्वादशमतीर्थकरस्य पार्श्व दीक्षां गृहीतवान् । तं पद्मरथं नवीनं साधुं दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्तौ । नानाप्रकाराणि मिष्टभक्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च-"भो साधो! गृहाणेमानि?" तानि दृष्ट्वा क्षुधा तृषा पीडितोऽपि साधुरग्राह्याणि ज्ञात्वा न गृहीतवान् । एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता। अथ द्वितीयां परीक्षां कुरुतः । एकस्मिन् ग्राममार्गे ताभ्यां कण्टकाः कर्कराश्च विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः । स साधुमहानुभावो जीवदयापालनार्थ तं मण्डुकीसत्कं मार्ग त्यक्त्वा सकण्टकमार्गे याति । तैः कण्टकैश्च तस्य महोपसर्गो जातः । पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान परिभ्रष्टः । अथ तौ तस्य तृतीयां परीक्षां कुरुतः। ताभ्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकुर्विताः । ताः स्त्रियस्तस्य साधोरग्रे नानापकाराणि नृत्यादीनि हावभावान् भोगप्रार्थनादीनि च कुर्वन्ति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितम् । पुनस्ताभ्यां नैमित्तिकरूपं विधाय तस्मै साधवे प्रोक्तम्-“ भो साधो ! आवां ज्ञानिनौ नैमित्तिको स्वः 強強強強聯聯號號號強強強聯號樂器樂樂樂器等器端端端整器器 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy