SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥९३॥ यखिशत प्रश्नः ॥ 參蒂蒂蒂器骁漿器验器端器器端端幾號號漿蟲器端端端器端懿 तथाहि हस्तिनागपुरेऽरिमर्दनो राजा राज्यं करोति । तत्रैव सुबुद्धिनामैकः श्रेष्टी वसति । तस्य बाधुमती नाम्नी भार्या । तस्या मनोरथाख्यश्च पुत्रः। स बालः पितृभ्यां शतैर्मनोरथैर्वद्धर्थते । अथैकदा पिता तस्य पुत्रस्य शिक्षां ददाति-" हे पुत्र ! त्वं देवगुरुभ्यः प्रणामं कुरु ।' परं स कुबुध्या न करोति । वृद्धानां प्रति त्वं विनयं कुर्वित्युक्तोऽपि स विनयं न करोति । एकदा पित्रा स गुरोः पाच समानीतः। तदा गुरुभिस्तं प्रत्युक्तम्-" भो वत्स! त्वं नियम पालय।" तेनोक्तमहं नियम पालयितुं न शक्नोमि । अथ कतिचिदिवसानन्तरं तस्य पिता मृत्वा देवोऽभूत् । अथ तस्य मनोरथस्य गृहे कृपणत्वत: कोऽपि भिक्षु याति । ___अर्थकदा स एकाक्येव कंचिद् ग्राम प्रति चलितः । मार्गमध्ये च तस्य चौरा मिलिताः । तैर्मारितोऽसौ मृत्वा दरिद्र| कुले कस्यचिद्दरिद्रस्य पुत्रो जातः । तत्र च तस्य निष्पुण्यक इति नाम जातम् । स निष्पुण्यको लोकानां पशूश्चारयति, तथा जनानां भारं मस्तके वहति । एवं स सर्वेषां लोकानां सेवाकारकोऽभूत् । तथापि स स्वोदरं दुःखेन पूरयति । एकदा स द्रव्योपार्जनाय देशान्तरे चलितः । मार्ग स वनमध्ये एक षण्मुखं देवस्यालयं दृष्ट्वा धनप्राप्त्यर्थमुपवासपूर्वक सं देवमाराधयामास । तदा सप्तमे दिवसे षण्मुखेन देवेनागत्य तस्मै भणितम्-" त्वमितः स्थानाद्याहि ! तव भाग्यमध्ये लक्ष्मी स्ति।" तदा तेन निष्पुण्यकेन भणितमहमत्रैव तव स्थानाग्रे मरिष्यामि । १ अहीं नियम पालवाथी थता लाभ जणाववा, तेमज कुंभारनी टाल जोवानो नियम पालवाथी नियम राखनारने थएलो लाभ समजाववो। 梁游等聯聯柴柴柴柴聯蒂蒂器蒸發器器杂號露器器樂器麥茶 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy