SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भविष्यन्ति तेऽपि कृतार्था मणकवद् भवन्तु भवत्प्रसादतः ' इत्युपरोधेन न संवत्रे । समये श्रीयशोभद्रं स्वपदे निवेश्य समाधिना स्वर्गमगात् । श्रीशय्यम्भवाचार्याणां वर्षाण्यष्टाविंशति २८ गृहस्थपर्यायः, एकादश ११ वर्षाणि व्रतपर्यायः, त्रयोविंशति २३ वर्षाणि युगप्रधानपदवी, द्वापष्टि ६२ वर्षाणि मासत्रयं दिनत्रयं च सर्वायुः । ॥ इति श्रीशय्यम्भवाचार्याणां लेशतश्चरितम् ॥ अथ श्रीयशोभद्रचार्य श्रीसंभूति][त]विजयसूरिं चैकगाथयाऽनुसरन्नाह - संजणिअपणयभद्दं, जसभद्दं मुणिगणाहिवं सगुणं । संभूयं सुहसंभूइभायणं सूरिमणुसरिमो ॥१३॥ व्याख्या - यशोभद्र नामानं गणाधिपं = साधुसमूहनायकमहम् अनुसरामि= आश्रयामि । यदिवा अनुस्मरामि = ध्यायामि । कीडशम् ? संजनितप्रणतभद्रं= विहितप्रप्राणिकल्याणम् । तथा सगुणं ज्ञानादिगुणोपेतम् । न केवलं श्रीयशोभद्रसूरिं किन्तु सम्भूत्याचार्यमप्यनुसरामि वा । तमपि कीदृशम् ? सुखसंभूतिभाजनं सुखानि = शातानि तेषां संभूतिः =संभव उत्पत्तिरिति यावत् तस्य भाजनं = स्थानम् आश्रय इति यावत् सुखसंभूतिभाजनम् । अयमभिप्रायः - साधूनां रागद्वेषाभिनिवेशक्लेशलेशैर्दुःखहेतुभिरस्पृष्टचेतसां यत्सुखं तत्कुतः क्रोधेर्ष्याविषादमायालोभाद्यभिभूतानां शक्रादीनामपीति, तदुक्तम् " नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिव साधो - लकव्यापाररहितस्य ॥ १ ॥ निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशाना- मित्र मोक्षः सुविहितानाम् ॥ २ ॥ " For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy