SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणधरसार्द्धशतकम्।। जिनवल्लम परीणां सप्रपंच * स्तुतिगर्भ चरित्रादि। इअ विहिणा अहिवासेज देवबिंब निसाइ सुद्धमणो । तो उग्गयंमि सूरे, होइ पइट्ठासमारंभो इत्यार्यसमुद्राचार्यप्रतिष्ठाकल्पवचनात् , " नमिविनमिकुलान्वयिभिविद्याधरनाथकालिकाचार्यैः । कासइदाख्ये नगरे, प्रतिष्ठितो जयति जिनवृषभः॥१॥" इति चिरन्तनस्तोत्रपाठाच्च, न तु कदाचिदपि श्रावकेण । एवं नन्दिविधानमपि रात्री महादोषं, तथाहि-दीक्षाद्यर्थ हि नन्दिकरणं, दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा, रात्रौ च प्राकाम्यहेतुकप्रज्वालितभूरिप्रदीपतेजस्कायिकजीवानां स्वयं शरीरस्पर्शेन व्यापादनात् कजलध्वजेषु च निरन्तरनिपततां लक्षशः पतङ्गादिजन्तूनां व्यापत्तिनिमितभावात-कीदृशी दीक्षादात्गृहीत्रोः सर्वविरतिः । तथा च 'करेमि भंते ! सामाइयं'-इत्यादिसर्वविरतिसामायिकसूत्रस्यापि तत्क्षणं शिष्येणोच्चार्यमाणस्य वैयर्थ्यप्रसङ्गः, शिष्यस्य प्रथमक्षणादारभ्य प्राणातिपातप्रवृत्तेः, दीक्षादातुश्च दोषसंख्यापि वक्तुं न शक्यते, तच्छि[बी]क्षया तावजन्तुजातव्याघातप्रवृत्तेः । तथा विमलकेवलालोकेन भगवता तावतां शिष्यलक्षाणां मध्यात्कस्यापि न क्षणदायां दीक्षणमदायि?, 'दिवसाईयं तित्थं च' (१) इति भगवद्वचनं, ततो भगवदाचार भगवदाज्ञां च प्रमाणयतां तत्पथवर्तिनामैदंयुगीनानां तद्विनेयानां कथं निशि तत्कत्तुं युज्यते ? इति एवं चोत्सूत्रजनक्रमस्य सर्वकालविषयः प्रतिषेधः यात्रास्त्रात्रादीनां च निशागोचरः प्रतिपादित इति गाथार्थः ॥ १११ ॥ तथाजारत्ती जारथीणमिह रइंजणइ जिणवरगिहेवि।सारयणी रयणियरस्स हेउ कह नीरयाण मया।११२|| व्याख्या-'जा रत्ती जारत्थीण 'मित्यादि । या रात्रिः निशा जारस्त्रीणाम् उपपतियोषिताम् इह-अत्र जगति रति ॥५६॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy