SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथा - " वागविरुद्धा नवि गाइजह" इत्यादि । अत एव स्वपरहितम् - आत्मेतरपथ्यं शुभभाववृद्धिहेतुकत्वादित्यर्थः ॥ १०८ ॥ तथा रागोरगोवि नासइ, , सोउं सुगुरूवएसमंतपए। भवमणो-सालूरं, नासइ दोसो वि जत्थाही ॥१०९॥ व्याख्या – ' रागो० ' इत्यादि । अत्र आयतने रागःयाद्यभिष्वङ्गः स एव उरगः = सर्पः भीमत्वदशनशीलत्वादिभिर्हेतुभिः रागोरगः, सोऽपि नश्यति दूरतः पलायते, अपि संभावनायां संभाव्यते एतद् वक्ष्यमाणप्रकारेण किमत्रा संभाव्यमित्यर्थः । किं कृत्वा ? श्रुत्वा = आकर्ण्य, कानि ! सुगुरूपदेश एव = सद्धर्माचार्यस्य हितवचनान्येव मन्त्रपदानि यत्र आयतने “ ॐ नमः श्रीघोणसेहरे २ बरे २ तरे २ वः २ वल २ लां २ २ रीं २ रौं २ र २ स२" इत्यादिमत्राक्षराणि सुगुरूपदेशमन्त्रपदानि । तथा यत्र आयतने भव्यानाम् = आसन्नसिद्धिकानां मनः = चित्तं भव्यमनस्तदेव सालूरो- दर्दुरस्तं नाश्नाति = नाति । द्वेषः = परगुणासहनं सोऽपि अहिरिव अहिः = भुजङ्गः । द्वेषस्यापि अहित्वं निरूपयता द्वयोरपि रागद्वेषयोः ' यत्र रागस्तत्र द्वेषो, यत्र द्वेषस्तत्र रागः' इत्यन्योन्यानुगतत्वं दर्शयति, तदुक्तम् " रागविसयादभिन्नो, दोसो त विसयगोयराणचे [ ने ] । रागो तम्हा दुन्निवि, अनोन्नगया इमे लोए ॥ १ ॥ " अयमपि सुगुरूपदेश मन्त्रपदप्रभावः, पठ्यते च लोकेऽप्ययमर्थः, तथाहि " सालूरो कसिण अंगमस्स जं दलइ मत्थए पायं । तं मन्ने कस्सवि मंतबाइणो फुरइ मापं ॥ १ ॥ " इति गाथार्थः ॥ १०९ ॥ १० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy