SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie गणधर श्री साद्ध *ॐॐ शतकम् । जिनवल्लभ सूरीणां दासप्रपंच स्तुतिगर्मचरित्रादि॥ ॥४९॥1 CASECREASIC सुहसीलतेणगहिए, भवपल्लिंतेण जगडिअमणाहे। जो कुणइ कूविअत्तं, सो वन्नं कुणइ संघस्स ॥९७॥ ____ व्याख्या-सः कश्चिदनिर्दिष्टनामा, वर्ण="वर्णः स्वर्णे मखे स्तुतौ । दंते द्विजादौ शुक्लादौ, कुथायामक्षरे गुणे ॥ भेदे गीत-क्रमे चित्रे, यशस्तालविशेषयोः अङ्गरागे च" इति (हैमानेकार्थ० १६६) पाठाद् यशः सङ्घस्य-प्रवचनस्य प्रभावनामित्यर्थः, करोति-विधत्ते इति योगः । यः, किम् ? इत्याह-कुरुते, किम् ? 'कूवियत्तं ' ति पूत्कारकल्पं तदुत्पथत्वजल्पनं, क्क सति ? ' जने' इत्यध्याहार्य ततो जने सति, कीदृशे ? ' सुहसीलतेणगहिए ' ति, सुखमेव शीलयन्ति अभ्यस्यन्तीत्येवंशीलाः सुखशीला: सातलम्पटाः पार्श्वस्थादयः, साध्वाभासास्त एव स्तेना:-तस्करास्तैगृहीतेवशीकृते । वशीकृत्य किं क्रियमाणे ? 'नीयमाने' इति पदं गम्यते ततो नीयमाने उत्पथेन प्राप्यमाणे, काम् ? 'भवपल्लिंतेणं 'ति, अत्र 'अन्त'-शब्द: " अन्तः स्वरूपे निकटे, प्रान्ते निश्चयनाशयोः। अवयवेऽपि " इति (हैमानेकार्थ० १७१ ) वचनात्स्वरूपार्थो नैकट्यार्थः प्रान्तार्थो वा, ततो भवः संसारः स एव पल्ली, भवपल्ल्येव भवपल्ल्यन्तं प्राकृतत्वात्तृतीयान्ततानिर्देशः, यदि वा-भवपल्लीप्रान्तेन वा, कीदृशे जने ? 'जगडिअमणाहे' “जा जस्स ठिई जा जस्स संतई पुत्वपुरिसकय मेरा | सोतं अइक्कमंतो, अणंत| संसारिओ मणिओ ॥१॥" इत्यादिसद्गच्छविषयोपपत्त्यभिधानपूर्वकं स्वगच्छस्थितिशृङ्खलाबन्धनादिना विडम्बिते मवो द्भवदुःखलक्षपरित्राण प्रति, अनाथे वनीराजक इव नीयमाने । 'तेणजगडिअमणाहे ' स्तेनाः चौराः प्रस्तुतत्वात्पार्श्वस्थादयस्तैर्विडम्बितानाथे इति वा । ननु 'अहो ! जिनगृहनिवासः, गृहस्थचैत्यभवनधनस्वीकारः, गद्दिकाद्यासनोपवेशनं, यतिनां १ 'यशे' अत्र 'ते' इत्यपि पाठः । २ 'ते' अत्र 'रूपै' इत्यपि पाठः । ॥४९॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy