SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यग्दृष्टिसुसाधुसुश्रावकादय इत्यर्थः, मिथ्यादृशां तु महामोहनिद्रामुद्रितविवेकलोचनानां कौतस्कुती जागरणवार्तेत्यर्थः कीदृशाः ? स्वपरयोः आत्मेरतयोनिवृति “अथ निवृतिः । मोक्षे मृत्यौ सुखे सौस्थ्ये," इति (हैमानेकार्थ० ८६९) पाठान्मोक्षं समिच्छन्तः अभिलषन्तः । पुनः किंविधास्ते स्तोकजनाः ? तत्राह-मेलयन्तः योजयन्तः, कम् ? शब्द-स्वरम् , कस्य ? शब्दस्य-स्वरस्य, किमर्थ ? मित्याह-परमार्थरक्षणार्थमिति, परमः-प्रकृष्टोऽथों वाच्यं यस्य स परमार्थः सिद्धान्तरूप: स्वाध्यायस्तस्य रक्षणार्थम्-अविस्मरणार्थम्, अविच्छिन्नस्वाध्यायकरणेन शब्द शब्देन संबनन्तः । निद्राविकथाप्रमादासेवनेन हि स्वाध्यायाकरणे महाननर्थः साधूनाम् , तदुक्तम् " जागरह जणा! निचं, जागरमाणस्स वड्डए बुद्धी । जो सुबइ न सो सुहिओ, जो जग्गइ सो सया सुहिओ ॥१॥ सुयइ सुयंतस्स सुयं, संकि खलिअं भवे पमत्तस्स । जागरमाणस्स सुयं, थिरपरिचिअमप्पमत्तस्स ॥२॥ सुयह य अयगरभूओ, सुयंपि से नासई अमयभृयं । होही अयगरभूओ, नटुंमि सुए अमयभूए निहावसगो जीबो, हियमहिअं वा न याणई किंपि । तम्हा तप्परिहारेण धम्मजागरिअया सेया ॥४॥" यदि वा-परमः-अत्यन्तश्रेष्ठः अर्थः-धनं परमार्थः, स च श्रुतमेव तस्य रक्षणार्थ, तद्रक्षणस्यैव हि सकलसुखखानिकल्पत्वात् , तदुक्तम् " नरपतिभिरदण्ड्यं शस्त्रघातैरखण्ड्यं, प्रकटितमपि धार्य नैव चौरापहार्यम् , निखिलसुखनिधायि प्राज्यमीडग्जिनेन्द्रा-गमधनमिह धन्याः केचिदेवार्जयन्ति 545 For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy