SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है। सङ्को येन तं संकोचितकुसमयकौशिककुलम् । तथा न विद्यते मलं-पापं यस्य तम् अमलम् , सूर्यपक्षे अमलं निष्कलङ्कम् । तथा उत्तम-तत्कालवर्तिसमस्तमूरितिलककल्पत्वेन श्रेष्ठम् , सूर्यपक्षे च उत्-उत्क्रान्तम् अपसृतं तमः अन्धकारं यस्मिन् तम् उत्तमम् । तथा प्रणतजनानां प्रहलोकानां दत्तं वितीण भद्रं कल्याणं येन तं प्रणतजनदत्तभद्रम् , सूर्यपक्षेपि प्रणतजनदत्तभद्रम् , 'आरोग्य भास्करादिच्छे'-दिति लोकापेक्षमेतदिति गाथाष्टकार्थः ॥ ५२-५९ ॥ अथ शीलाङ्कमूरि प्रशंसन्नाहआयारवियारणवयण-चंदिमा[या]दलिअसयलसंतावो। सीलंको हरिणंकु व सहइ कुमुयं वियासंतो॥ ___ व्याख्या-आचारस्य आचाराङ्गस्य विचारण-विवरणं तस्य वचनानि-शब्दास्त एव चन्द्रिका कौमुदी तया दलितः चूर्णितः सकलसन्तापा-पायज्वलनज्वालाऽविकलकवलनं येन स आचारविचारणवचनचन्द्रिकादलितसकलसन्तापः शीलाको हरिणाङ्क इव-मृगलाञ्छन इन को-पृथिव्याःसहृदयगीतार्थसाध्वादिजनस्य मुदम्-आचाराङ्गसम्यग्विवरणतदन्तर्गतसंसारवैराग्यहेतुनानासुभाषितामृत-कर्णाभरणाभ्यां प्रमोदं विकाशयन्-विस्तारयन् शोभते-राजते । नन्वेष शीलाङ्कश्चैत्यवासीत्याकर्णितमेतत् , यद्येवं तर्हि अस्मिन् युगप्रवरगणधरस्तवनरूपे प्रकरणेऽस्य प्रोच्छलदतुच्छच्छविच्छटाभारभासुरविशालाप्रत्नरत्नमालान्तराल इव काचशकलस्य, विशुद्धोभयपक्ष-सच्चरणचङ्गमणदक्ष-पक्षिकुलोत्सश्रीराजहंसांतर इव वा शुक्लत्वमात्रसदृक्षपक्षस्य बकोटस्य प्रक्षेपः कथं सचेतसां चेतसि चारिमाणमश्चति ?, सत्यम् , एप सद्वृत्तिविधानेन लोके प्रतिष्ठापात्रं ज्ञानाधिकत्वेन प्रवचनप्रभावकश्च तत:-"नाणाहिओ वरतरं हीणोवि हु पवयणं पभावितो" इत्याप्त - - ब For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy