SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममैव शिरस्तव करतलस्थमस्तु इत्युक्त्वा नृपः करेण खड्गं प्रगृह्य यावत् स्वशिरच्छेदार्थमुद्यतस्तावझ्झटिति सा मन्त्रशक्तिना खड्गस्य धारं वबंध, अतस्सत्वरं राज्ञा चाल्यमानोपि | खड्गः न शिरश्छिनत्ति राजा च तं भ्रष्टधारं विज्ञायाऽन्यं खड्गमाददे परं न सोपि कंठोपरि चलति स्म । ततोन्यमाददे परं मनागपि सत्वादशौ भूपालो न चचाल स्थिरमना नवान नवान् खड्गान् गृह्णाति स्म. इति दृढप्रतिज्ञं भूपतिं विज्ञाय ते स्त्रियो स्वकीयं रूपंप्रादुष्कृत्य सन्तुष्टमानसौ जयजयेत्यादरादुच्चार्य पुनश्च “जयत्वमृषभस्वामिकुलसागरचन्द्रमाः । जय सत्ववतां धुर्य जय चक्रीशनन्दन” इति मुहुर्मुहुर्भाषयन्त्यो प्रेमाकुलहृदये | इत्थमूचतुः । अहो तव धैर्यमहो ते मनसो निश्चयः । यत् स्वदेहनाशेऽपि व्रतभङ्गं नाकुवः । देवेन्द्रः स्वसभायां सर्वैर्देवैः परिवृतो तव प्रशंसां करोति राजन् तवपरीक्षार्थमेव मुरेन्द्रेण प्रेषिते आवामत्र समायाते इयं रम्भा अहं चोर्वशी नामाप्सरा आवाभ्यां बहुशः || For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy