SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७॥ व्रतं देववशात्वं त्यक्ष्यते तर्हि तेन भोजनेन किं ? यदुक्तमपि वम्यते । ” इत्थं बहुधा तया | देववाण्या निषेधितोप्याकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्षामाददे। | अथ च स मुनिवेषधृक् राजकुमारस्तीक्ष्णं व्रतं पालयन भूमण्डले पर्यटत । अथैकदा वसन्तपुरनाम्नि नगरे समागत्य तत्रैव कस्मिंश्चिद्देवमन्दिरसमीपे कायोत्सगार्थ तस्थौ । अस्मिन्नेव नगरे देवदत्तो नाम कश्चित् श्रेष्ठी आसीत् तस्य च धनवती नामातीव सुन्दरी भार्या अनयोर्दम्पत्योरेका श्रीमती नाम काचिद्रूपलावण्ययुक्ता कुमारिका बभूव । या प्राग्भवे अस्य राजकुमारस्य वंधुमती नाम भार्यासीत् सैव देवलोकात्पुनः | मर्त्यलोकमुपागत्य श्रीमतीरूपेण अस्य श्रेष्ठिनः गृहे समुत्पन्ना । अथ सा | कुमारिका धात्रीभिलॉलमाना क्रमेण संजातयौवना सखीभिः परिवृता तस्मिन्नेव देवमन्दिरसमीपे क्रीडार्थमागत्य विहरतिस्म, एवं क्रीडांकुर्वत्यस्तास्सर्वा एव कन्याः दर्शनार्थमाया ॥२७॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy