SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्चौरस्यातिवाहितेषु दिनचतुष्ठयेषु पञ्चमदिने सा दुर्भगा राज्ञी राज्ञः समीपमागत्यो वाच स्वामिन् ! मम दुर्भगाया उपरि भवदीया एतादृशी कृपा नास्ति तेन मया कदापि भवन्तो न याचिता अधुनास्य चौरस्य प्राणदानं मया याच्यते । राजा तदीनवचः श्रुत्वा कृपया तं चौरं तस्यै प्रादात् । अनया च तं चौरं स्वगृहे आनीय सामान्यभोज्येन भोजयित्वा कश्रितं मया तुभ्यं जीवनं प्रदत्तमतः पुनश्चौर्यं मा कार्षीः इदानीं स्वगृह गच्छेत्युक्त्वा मुमोच । चौरोपि तां बहुमानयानः स्वगृहमगच्छत् अस्यैतादृशी लीलां दृष्ट्वा | सपत्नीभिस्तासूयं हसितं उक्तञ्च नास्य त्वया किञ्चित्सुखकारि कृतं इति तासां परस्परं | बहूपकारविषये बिवादे जाते राज्ञा स एव चौर समाहूय पृष्टः । अहो आसु पञ्चसु कया तव |बहूपकारः कृत इति ब्रूहि तच्छुत्वा चौरेणोक्तं भो महाराज ! चतुरो दिनान्यावन्मया | मरणभयभीतन आभिः राज्ञीभिः प्रदत्तमपि स्नानपानादिकं नाज्ञायि अद्य | For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy