SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९॥ अ० त०॥ त्वमेव यत् श्रेयांसस्य कश्चिदपूर्वो महान् लाभो भविष्यति । अथ तस्मिन्नेव दिने गृहं | निर्याते श्रेयांसे स एव भगवान ऋषभदेवः भिक्षार्थं तस्य गृहमाजगाम । श्रेयांसस्त्वागतं । स्वामिनं विलोक्य जाताल्हादस्तं तुष्टाव यतो महात्मा ऋषभः महार्हपूजनोपचारैः स्वर्णगजाश्वादिभिश्च लोकेन पुजितोऽपि कस्यचिदपि सपर्या नाऽग्रहीत । अत एव रुष्टं तं विज्ञाय सर्व एव जनाः स्वं स्वं भाग्यं गर्हयन्तः श्रेयांसस्य भाग्योदयं मेनिरे । श्रेयांप्तस्तु तदर्शनमात्रादेवोत्पन्नपूर्वज्ञानः अहो! ईदृग्विधं रूपं मया पूर्वमपि दृष्टमिति विचा. रयन् भगवता सह स्वस्याष्टमभवजन्यसम्बन्धं ज्ञात्वा ह्यचिन्तयत् अहो ! अज्ञानविजृम्भितमेतत् सर्व सांसारिकाणां जीवानां येन ते ईदृग्विधं मोहं कुर्वन्ति यतश्चायं भगवान ऋषभदेवस्त्रैलोक्यराज्यमपि तृणाय मन्यमानस्सर्वमेव सुखं जलबुहुदवद्भावयन् साधुत्वमङ्गीकृत्य मोक्षाय यतते एनं महात्मानमेषा सर्वलोकमोहकरी माया परिमाणुमात्रमपि बाधते किं पुन- ॥९॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy