SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयरूपलावण्य सौभाग्यादिगुणयुक्ता अपरा रतिविासीत् राज्ञश्चान्यः पुत्रः पुत्रिका वन अतस्तयोर्दम्पत्योरेषा गुणवती अतीववल्लभा बभूव । अथ कियता कालेन संजातयौवनामेनां कुमारिकां विलोक्य तद्योग्यवरमलभमानो राजा अहर्निशं तद्विवाहचिन्तातुर एव आसीत् । एतस्मिन्नेवावसरे तन्नगरनिवासिनो केचन व्यापारिणः शकटेषु नानावस्तून्यारोप्य व्यापारार्थं देशान्तरं जिगमिषवो राज्ञः समीपं प्राभृतप्रदानार्थमगमन् राजा च तान् सत्कृत्य बहुमानपुरस्सरमिद भूचें । देशान्तरं भ्रमद्भिर्भवद्भिर्यदि गुणसुन्दरीयोग्यः कश्चिद्वरो लभेत्तस्यासम्बन्धमवश्यमेव विधेयं ते चैतन्नृपाज्ञां शिरसि विधाय तथेति प्रत्युक्त्वा गृहमागत्य प्रभाते निर्गमिताः । ततः क्रमेण बहून् देशान् ग्रामान् जनपदांचं विलोकयन्तो अयोध्यायामागतास्तत्र च बहूनां वस्तूनां विक्रयान्महीयान् लाभ अपि संजातः अतस्तद्देशभवान्यन्यानि वस्तुनि For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy