SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ ८७॥ Peoporoscopeecretroo भवत्मसादतः । प्राप्त राज्यमिदं प्राज्य-मन्यथैतत्कुतो ! मम ॥१०॥ तस्माद्राज्यमिदं ग्राह्यं, भवद्भिः स्यामहं पुनः । IN दीपमालिका अनृणीति समाकर्ण्य, गुरुजंगाद सादरम् ॥११॥ राजन् ! राज्यस्य नास्तीच्छा-ऽस्माकं वयं तु निःस्पृहाः। देहेऽपि किं पर्व-कथा पुना राज्ये, वक्तव्य ? निष्परिग्रहाः ॥१२॥ वस्मात्किमपि राज्येन, सहास्माकं प्रयोजनम् । नास्ति राजन् ! भवत्पुण्यात् , प्राप्तं राज्यमिदं तव ॥१२॥ ततो राजन् ! सदा पुण्ये, कर्त्तव्य उद्यमस्त्वया । पाळनीयं ससम्यक्त्वं, निर्मलं द्वादशव्रतम् ॥१४॥ राजन् ! जिनाचैना सेवां साधूनां यमिनां कुरु । अष्टमातृभृतां शुद्ध-निर्दोषाहारकारिणः ॥१५॥ दानशीलतपोभाव-धर्ममाराधयानिशम् । एष धर्मः कृतः पर्व-दिनेष्वपूर्वलाभदः ॥१६॥ निशम्येति गुरोर्वाक्यं, नृपः प्रोवाच सद्गुरो!। पर्युषणादिपर्वाणि, ख्यातानि सन्ति शासने ॥१७॥ श्रीदीपमालिकापर्व, कुतः प्रवृत्तमत्र च । जनाः कुर्वन्ति वर्षस्य, समाप्ति लक्ष्मीपूजनम् ॥१८॥ तथा शक्त्यनुसारेण, शुद्धवस्त्रविभूषणम् । धारयन्ति च कुर्वन्ति, सुन्दरभोजनादिकम् ॥१९॥ पुनः कुर्वन्ति धौरेय-शृङ्गादिरअनक्रियाम् । स्वगृहाङ्गणभित्त्यादि-लिम्पन-धोलनादिकम् ॥२०॥ तस्य किं कारणं? राज्ञे-ति पृष्टे प्राह सद्गुरुः । राजन्नेतस्य सम्बन्ध, सावधानतया शृणु ॥२१॥ दशमस्वर्गतश्च्युत्वा, श्रीमद्वीरजिनेश्वरः। आषाढ-शुक्लषष्ठयां च, देवानन्दोदरेऽजनि ।।२२।। शक्राऽऽज्ञयाऽय देवेन, हर्यादिनैगमेषिणा । स्वश्रेयोऽर्थ प्रयोदश्या-माश्विनमेचके निशि ॥२३॥ देवानन्दोदराल्लाखा, संहृतस्त्रिशलोदरे । चैत्रशुक्लत्रयोदश्यां, जन्माभूत् त्रिजग * यथा पञ्चमहाव्रतोक्तौ षष्ठस्य रात्रिभोजनविरमणव्रतस्य जायमानेऽप्याद्ये व्रतेऽन्तर्भावेऽपेक्षया पृथगुपादानमदुष्ट, कल्याणकपञ्चकेऽपि च्यवन-गर्भ-गर्भाधाना-चतरणादि-विभिन्न नामवाच्ये प्रथमे कल्याणकेऽन्तर्भावत्वात्पश्चाशके सत्यपि पञ्चकल्याणकोक्तो आगमे सर्वत्र “पंचहत्युत्तरे होत्था, xx साइणा परिनिव्वुए भयवं" इत्यादि शास्त्रपाठोपलम्भाद्वयोरपि मातृ CaesareezPCSRepeecene सहतस्त्रिशलोदरेपन, हर्यादिनगवतश्च्युत्वा, For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy