SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ६२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोः स्वरूपमालोक्य, गतविकारलोभयोः । गुणस्थानक्रमारूढः केवलज्ञानमाप्तवान् ||१२९|| वंश एवाभवत्सिंहासनस्तत्र स्थितः स च । ददौ धर्मोपदेशं च प्रतिबुद्धा नृपादयः || १३० ॥ ( ७ ) । हेयवस्तुपरित्यागे, तेतलिपुत्रसत्कथा । तेत लिनगरेऽयासीत्, कनक केतुभूपतिः ॥ १३१ ॥ राज्यलोभात्सुताआत - मात्रान्मारयते स च । तेतलिपुत्रमन्डयासी-तस्य भार्या च पोट्टिला ॥ १३२ ॥ माङ्मन्त्रिवल्लभा साऽभूत् पश्चादवल्लभाऽजनि । तस्या गृहेऽन्यदा साध्वी - रायाता वन्दिता तथा ॥ १३३ ॥ सा वशीकरणोपायं भर्त्तः पपच्छ चार्यया । प्रोक्तं भद्रे ! सदा सेव्यो, धर्मः कामितदायकः ॥ १३४॥ संसारवास विनाथ, दीक्षां लातुमना च सा । पति पमच्छ सोऽवादी - दीक्षां लाहि सुखेन च ॥ १३५ ॥ परं त्वं यदि देवः स्या- तदा मां प्रतिबोधयेः । स्वीकृत्य तद्वचः साऽपि दीक्षां भागवतीं ललौ ॥ १३६ ॥ सा प्रान्तेऽनशनं कृत्वा, स्वर्ग गताऽथ मन्त्रिणा । प्रच्छन्नं वर्द्धितश्चैको, राज्ञः पुत्रः स्वसद्मनि || १३७|| नृपे मृते कुमारः स राज्ये चास्यापि मन्त्रिणा । भूपोऽथ धीसखाधीनं, सर्व राज्यं चकार हि || १३८|| ततो मन्त्री सदा राज- कार्ये मनः कदापि न । चकार धर्मकृत्यं हि परभत्रसुखावहम् ॥ १३९ ॥ तस्मिन् क्षणे च देवत्वं प्राप्ता सा पोट्टिलाऽखिलम् । मन्त्रिणस्तत्स्वरूपं हि ददर्श दुर्गतिप्रदम् ॥ १४० ॥ तया तत्प्रतिबोधाय, सर्वे नृपादयो जनाः । पराङ्मुखाः कृता राजसभायां मन्त्रिणं प्रति || १४१|| तेन स्वानादरं दृष्ट्वा, सब आगत्य सद्मनि । कृताः स्वमरणोपाया, देवेन निष्फलीकृताः || १४२ || देवोऽथ मन्त्रिणं प्राह विलक्षीभूय संस्थितम् । भो ! मन्त्रिन्नस्ति संसार - स्वरूपमीदृशं सदा ॥१४३॥ ततः कोऽपि कस्यापि नैवास्ति स्वजनोऽपरः । इत्येवं मन्त्रिणं देवः, प्रतिबोध्य तिरोदधे ॥ १४४ ॥ मन्त्र्यथ विभवं सर्व, त्यक्त्वा दीक्षां ललाविति । पाल्य शुद्धचारित्रं, प्रान्ते च सद्गतिं ययौ ॥ १४५॥ ( ८ ) । For Private and Personal Use Only bezoc चातुर्मासी पर्व- कथा ॥ ६२ ॥
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy