SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। स्मितं विलासस्य कटाक्षविभ्रमं रतेरनङ्गस्य सुधारसच्छटाः । यशांसि तारुण्यनृपस्य मेनिरे विलासिनीनां शिरसि स्रजो जनाः ॥ ५५ ॥ प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लवं मुहुः । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीनां विदधे सुलोचना ॥ ५६ ॥ तदा यदासीत्तनुरामणीयकं प्रसूनमालाभरणैर्मृगीदृशाम् । अवति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ १७ ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवाः । स्फुरन्नखांशुप्रकरेण तत्क्षणं वितेनिरे पुष्पविभङ्गिमङ्गनाः ॥ १८ ॥ प्रसूनलक्ष्मीमपहृत्य गच्छतां वधूजनानां भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ ५९ ॥ समुल्लसत्संमदवाष्पविन्दुभिर्निलीयमानौरव लोचनैर्नृणाम् । वपुर्जलाई श्रमभारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचनाः ॥ ६० ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवां सद्यः प्रस्फुटशुक्तिसंपुटतटीनिष्क्रान्तमुक्ताकृतिम् । मूले च स्तनकुम्भयोरनुकृतथ्योतत्सुधाम्भोलवः स्त्रीणां जीवितमन्मथः समजनि स्वेदोदविन्दुव्रजः ॥ ६१ ॥ वनान्मकरकेतनप्रणयिनः करोल्लासित स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्राननाः । अशेषकुसुमोच्चयश्रमजलादेहास्ततो ___ जवाजनितविस्मयाः श्रिय इव स्त्रियो निर्ययुः ॥ ६२ ।। ताहक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोमिप्रसरपुलको धर्ममर्मव्यथायां दृष्टः सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाहः ॥ ६३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वादशः सर्गः । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy