SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ सर्गः ] धर्मशर्माभ्युदयम् । त्वामद्य के किध्वनितापदेशात्सराजमानेन स मानवेन । घनागमः स्तौत्यमृतोदयार्थी मेराजमानेनस मा नैवेन ॥ ६९ ॥ कलापिनो मैन्दरसानुगास्ते पयोदशोपहिता हिमांशोः । कलापिनो मैन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ ७० ॥ गुणलतेव धनुर्भ्रमरावली शरदि तामरसं गमिताधिकम् । ततिरतोऽप्सरसां कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ ७१ ॥ इति वचनमुदारं भाषमाणे मुदारं प्रशमितवृजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह चैनगानां रन्तुमासीन्नगानां ततिषु कुसुमलीनां वीक्ष्य पालीमलीनाम् ॥ ७२ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादशः सर्गः । ८३ द्वादशः सर्गः । दिदृक्षया काननसंपदां पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयाथिनां गुणैः समाहितः किं न तथाविधः प्रभुः ॥ १॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थली सेवितुमुत्सुको जनः । अचिन्तितात्मक्रमविप्लवो महान्मनोनुरागः खलु तत्र कारणम् || २ || विकासिपुष्पगुणि कानने जनाः प्रयातुमीपुः सह कामिनीगणैः । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति सह्याः किमसंख्यतां गताः ॥ ३ ॥ भौ तदारक्तमलक्तकद्रवैर्वधूजनस्याङ्घ्रिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसंचयैरिव ॥ ४ ॥ गतागतेषु स्खलितं वितन्वता नितम्बभारेण समं जडात्मना । भुजौ सुवृत्तावपि कङ्कणकणैः किलाङ्गनानां कलहं प्रचक्रतुः ॥ ९ ॥ For Private and Personal Use Only ६. शरदिता बाणख १. हे मनुष्यस्वामिन्. २. हे सुराजम. शोभना राज्ञां मा यस्य तत्संबोधनम्. ३. स्तवेन. ४. मन्दर-सानु - गा- आस्ते. ५. मन्द-रस- अनुगा:- ते fण्डता अतएव अमरसङ्गमिता देवसङ्गं प्राप्ता. अधिकं जले. ७. यस्यास्ताम्. धनं निरन्तरं गानं
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy