SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ काव्यमाला | जीवेति नन्देति जयेति चोच्चकैरुदीरिताशीर्जरतीभिरात्मनः । सिद्धेरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जरः ॥ ५५ ॥ अग्रे प्रसर्पच्चतुरङ्गविस्तृतां कृशां च मध्ये विशंखावरोधतः । पश्चादतुच्छामपि तां पैताकिनीं प्रियामिव प्रेक्ष्य स पिप्रिये प्रभुः ॥९६॥ हरिवोत्तम्भितकुम्भशोभितै रुपात्तनानावलभीम तैर्गजैः । निर्यान्तमुत्केव बियोगविक्लवा तमन्वगात्सालसमुन्नतैः पुरी ॥ ९७ ॥ रम्याननेन्दोर्धृतकाननश्रियः श्रितस्य सद्भिः संदनाश्रयस्य च । 'वेगेन भर्तुः पथि गच्छतोऽन्तरं महत्तदा तस्य पुरस्य चाभवत् ॥ १८ ॥ श्रेणीव रेणूद्रमनिष्ठितावनि स्फुटी भवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिनां मदस्स्रुतिस्तत्क्षणपातलोहिनी ॥ ५९ ॥ कम्पाद्भुवः क्षुभ्यदशेषवारिधिस्तदा भविष्यजगतोऽप्युपष्ठवः । अस्या व्यधास्यन्भरभङ्गुराकृतेर्गजा न चेद्दानजलाभिषेचनम् ॥ ६० ॥ प्रायोsपदस्ष्टष्टमहीतलाः खुरैर्वियद्माभ्यासरसं हया व्यधुः । तन्मत्तमातङ्गचमूभरादुवो विभावयामासुरमी विपर्ययम् ॥ ६१ ॥ लीलाप्रचारेषु यथा यथा व्यधुर्नखाग्रभागोलिखनं तुरंगमाः । उत्सर्पिपांसुप्रकरच्छलादभूत्तथा तथोर्व्याः पुलकाङ्कुरोद्गमः ॥ ६२ ॥ अन्तःस्खलंल्लोहखलीननिर्गलद्विलोललाला जलफेनिलाननाः । चेलुः पिबन्तः पवनातिरंहसो द्विषद्यशांसीव तुरंगपुंगवाः ॥ ६३ ॥ तस्योत्क्रमालक्ष्यत पार्श्वयोर्द्वयोः समुल्लसछोलष्टथुप्रकीर्णका । ध्यानान्नभोवर्त्मगतेरसंशयादुदीर्णपक्षेव तुरंगमावलिः ॥ ६४ ॥ तस्य व्रजहीरतुरंगसंनिधौ मयूरपत्रातपवारणव्रजः । वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधेः ॥ ६५ ॥ १. रथ्या. २. सेनाम्. ३. उपात्ता नाना बलस्य बलेन वा भीमता भयंकरत्वं यैः; ( पक्षे ) वलभी चन्द्रशाला तया मतैः ४ सालवत्समुन्नतैः; (पक्षे ) सालसमिति क्रियाविशेषणम्. ५. वनभू; (पक्षे ) कुत्सितं मुखम् . ६. सतामनाश्रयस्य; (पक्षे ) सदनानां गृहाणामाश्रयस्य. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy