SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनम्तुतिः । १५३ नाथ) हे गुरो, अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः भामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वरं प्रवितर ॥ जवाद्गतं जगदवतो वपुर्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान्स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ॥ जवाद्वेगाजगद्विश्वमवतो रक्षतो जिनोत्तमान् हे भव्यजनाः, स्तुत नुत । जगत्किवि. शिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पदं किंभूतम् । वपुः पीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसाः प्राणिनो यत्र तत् । जिनोत्तमान्कथंभूतान् । जं पुष्पमालां दधतः । मालां कथंभूताम् । स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च संपद्यत्र ॥ स संपदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमा वहन्नतनुत मोहरोदिते ॥ ७५ ॥ स जिनेन्द्रागमः संपदं दद्यात् । कथंभूतः। शं सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति । यद्वा अतनुतमानूहान् राति ददातीति । स चित्तभूः कामो येन क्षतो हतः । यः कंदर्पस्तपःशमौ अहन् जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते च योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ॥ यक्षराट कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशम. लक्ष्म्या प्रभाति प्रकर्षण शोभमाने । यक्षराट् किंविशिष्टः । चकितस्त्रस्तो हरिद्विप ऐरावणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नगे विगतसर्प नगे वृक्षे वटाभिधाने कृता वसतिरालयो येन । प्रभया कान्त्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः॥ जिनमुनिसुव्रतः समवताजनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः समुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जनतया जनसमूहेनावनतः । समुदिताः सहर्षी ये मानवा मनुष्या अवनिविकीर्ण भूमौ रा. शीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सत: । दीक्षा ग्रहीतुकामस्ये. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा मन:समुदिता हृदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः कर्म च येन ।। For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy